Sarga 114: Mandodarī's Lament and Rāvaṇa's Funeral
मन्दोदरीविलापः
mandodarīvilāpaḥ — word-by-word gloss for all 126 shlokas.
Jump to a shloka · 126 in this sarga
तासां विलपमानानां तथा राक्षसयोषिताम् । ज्येष्ठा पत्नी प्रिया दीना भर्तारं समुदैक्षत ।।6.114.1।।
Meaning
दशग्रीवं हतं दृष्ट्वा रामेणाचिन्त्यकर्मणा । पतिं मन्दोदरी तत्र कृपणा पर्यदेवयत् ।।6.114.2।।
Meaning
ननु नाम महाभाग तव वैश्रवणानुज । क्रुद्धस्य प्रमुखे स्थातुं त्रस्यत्यपि पुरन्दरः ।।6.114.3।।
Meaning
ऋषयश्च महीदेवा गन्धर्वाश्च यशस्विनः । ननु नाम तवोद्वेगाच्चारणाश्च दिशो गताः ।।6.114.4।।
Meaning
स त्वं मानुषमात्रेण रामेण युधि निर्जितः । न व्यपत्रपसे राजन्किमिदं राक्षसर्षभ ।।6.114.5।।
Meaning
कथं त्रैलोक्यमाक्रम्य श्रिया वीर्येण चान्वितम् । अविषह्यं जघान त्वां मानुषो वनगोचरः ।।6.114.6।।
Meaning
मानुषाणामविषये चरतः कामरूपिणः । विनाशस्तव रामेण संयुगे नोपपद्यते ।।6.114.7।।
Meaning
न चैतत्कर्म रामस्य श्रद्दधामि चमूमुखे । सर्वतः समुपेतस्य तव तेनाभिमर्शनम् ।।6.114.8।।
Meaning
यदैव च जनस्थाने राक्षसैर्बहुभिर्वृतः । खरस्तव हतो भ्राता तदैवासौ न मानुषः ।।6.114.9।।
Meaning
यदैव नगरीं लङ्कां दुष्प्रवेशां सुरैरपि । प्रविष्टो हनुमान्वीर्यात्तदैव व्यथिता वयम् ।।6.114.10।।
Meaning