Sarga 83: Lakṣmaṇa Rouses Rāma

रामाश्वासनम्

rāmāśvāsanam — word-by-word gloss for all 44 shlokas.

Page 1 of 544 shlokas in this sarga (verified max-across-sources)
Shloka 83.1Word-by-word available

राघवश्चापि विपुलं तं राक्षसवनौकसाम् । श्रुत्वा सङ्ग्रामनिर्घोषं जाम्बवन्तमुवाच ह ।।6.83.1।।

Meaning

Shloka 83.2Word-by-word available

सौम्य नूनं हनुमता क्रियते कर्म दुष्करम् । श्रूयते हि यथा भीमः सुमहानायुधस्वनः ।।6.83.2।।

Meaning

Shloka 83.3Word-by-word available

तद्गच्छ कुरु साहाय्यं स्वबलेनाभिसंवृतः । क्षिप्रमृक्षपते तस्य कपिश्रेष्ठस्य युध्यतः ।।6.83.3।।

Meaning

Shloka 83.4Word-by-word available

ऋक्षाराजस्तथोक्तस्तु स्वेनानीकेन संवृतः । आगच्छत्पश्चिमं द्वारं हनुमान्यत्र वानरः ।।6.83.4।।

Meaning

Shloka 83.5Word-by-word available

अथायान्तं हनूमन्तं ददर्शर्क्षपतिः पथि । वानरैः कृतसङ्ग्रामैः श्वसद्भिरभिसंवृतम् ।।6.83.5।।

Meaning

Shloka 83.6Word-by-word available

दृष्ट्वा पथि हनूमांश्च तदृक्षबलमुद्यतम् । नीलमेघनिभं भीमं सन्निवार्य न्यवर्तत ।।6.83.6।।

Meaning

Shloka 83.7Word-by-word available

स तेन हरिसैन्येन सन्निकर्षं महायशाः । शीघ्रमागम्य रामाय दुःखितो वाक्यमब्रवीत् ।।6.83.7।।

Meaning

Shloka 83.8Word-by-word available

समरे युद्ध्यमानानामस्माकं प्रेक्षतां पुरः । जघान रुदतीं सीतामिन्द्रजिद्रावणात्मजः ।।6.83.8।।

Meaning

Shloka 83.9Word-by-word available

उद्भ्रान्तचित्तस्तां दृष्ट्वा विषण्णोऽहमरिन्दम । तदहं भवतो वृत्तं विज्ञापयितुमागतः ।।6.83.9।।

Meaning

Shloka 83.10Word-by-word available

तस्य तद्वचनं श्रुत्वा राघवः शोकमूर्छितः । निपपात तदा भूमौ छिन्नमूल इव द्रुमः ।।6.83.10।।

Meaning