Sarga 83: Lakṣmaṇa Rouses Rāma
रामाश्वासनम्
rāmāśvāsanam — word-by-word gloss for all 44 shlokas.
Jump to a shloka · 44 in this sarga
तं भूमौ देवसङ्काशं पतितं प्रेक्ष्य राघवम् । अभिपेतुः समुत्पत्य सर्वतः कपिसत्तमाः ।।6.83.11।।
Meaning
असिञ्चन्सलिलैश्चैनं पद्मोत्पलसुगन्धिभिः । प्रदहन्तमनासाद्यं सहसाऽग्निमिवोच्छिखम् ।।6.83.12।।
Meaning
तं लक्ष्मणोऽथ बाहुभ्यां परिष्वज्य सुदुःखितः । उवाच राममस्वस्थं वाक्यं हेत्वर्थसंयुतम् ।।6.83.13।।
Meaning
शुभे वर्त्मनि तिष्ठन्तं त्वामार्य विजितेन्द्रियम् । अनर्थेभ्यो न शक्नोति त्रातुं धर्मो निरर्थकः ।।6.83.14।।
Meaning
भूतानां स्थावराणां च जङ्गमानां च दर्शनम् । यथास्ति न तथा धर्मस्तेन नास्तीति मे मतिः ।।6.83.15।।
Meaning
यथैव स्थावरं व्यक्तं जङ्गमं च तथाविधम् । नायमर्थस्तथा युक्तस्त्वद्विधो न विपद्यते ।।6.83.16।।
Meaning
यद्यधर्मो भवेद्भूतो रावणो नरकं व्रजेत् । भवांश्च धर्मयुक्तो वै नैवं व्यसनमाप्नुयात् ।।6.83.17।।
Meaning
तस्य च व्यसनाभावाद्व्यसनं च गते त्वयि । धर्मो भवत्यधर्मश्च परस्परविरोधिनौ ।।6.83.18।।
Meaning
धर्मेणोपलभेद्धर्ममधर्मं चाप्यधर्मतः । यद्यधर्मेण युज्येयुर्येष्वधर्मः प्रतिष्ठितः ।।6.83.19।।
Meaning
यदि धर्मेण युज्येरन्नाधर्मरुचयो जनाः । धर्मेण चरतां धर्मस्तथा चैषां फलं भवेत् ।।6.83.20।।
Meaning