Sarga 58: Prahasta Slain

प्रहस्तवधः

prahastavadhaḥ — word-by-word gloss for all 61 shlokas.

Page 1 of 761 shlokas in this sarga (verified max-across-sources)
Shloka 58.1Word-by-word available

ततः प्रहस्तं निर्यान्तं दृष्ट्वा भीमपराक्रमम् । उवाच सस्मितं रामो विभीषणमरिन्दमः ।।6.58.1।।

Meaning

Shloka 58.2Word-by-word available

क एष सुमहाकायो बलेन महता वृतः । आगच्छति महावेगः किंरूपबलपौरुषः । आचक्ष्व मे महाबाहो वीर्यवन्तं निशाचरम् ।।6.58.2।।

Meaning

Shloka 58.3Word-by-word available

राघवस्य वचः श्रुत्वा प्रत्युवाच विभीषणः । एष सेनापतिस्तस्य प्रहस्तो नाम राक्षसः ।।6.58.3।।

Meaning

Shloka 58.4Word-by-word available

लङ्कायां राक्षसेन्द्रस्य त्रिभागबलसंवृतः । वीर्यवानस्त्रविच्छूरः प्रख्यातश्च पराक्रमे ।।6.58.4।।

Meaning

Shloka 58.5Word-by-word available

ततः प्रहस्तं निर्यान्तं भीमं भीमपराक्रमम् । गर्जन्तं सुमहाकायं राक्षसैरभिसंवृतम् ।।6.58.5।।

Meaning

Shloka 58.6Word-by-word available

ददर्श महती सेना वानराणां बलीयसाम् । अतिसञ्जातरोषाणां प्रहस्तमभिगर्जताम् ।।6.58.6।।

Meaning

Shloka 58.7Word-by-word available

खड्गशक्त्यृष्टिबाणाश्च शूलानि मुसलानि च । गदाश्च परिघाः प्रासा विविधाश्च परश्वधाः ।।6.58.7।।

Meaning

Shloka 58.8Word-by-word available

धनूंषि च विचित्राणि राक्षसानां जयैषिणाम् । प्रगृहीतान्यशोभन्त वानरानभिधावताम् ।।6.58.8।।

Meaning

Shloka 58.9Word-by-word available

जगृहुः पादपांश्चापि पुष्पितान्वानरर्षभाः । शिलाश्च विपुला दीर्घा योद्धुकामाः प्लवङ्गमाः ।।6.58.9।।

Meaning

Shloka 58.10Word-by-word available

तेषामन्योन्यमासाद्य सङ्ग्रामः सुमहानभूत् । बहूनामश्मवृष्टिं च शरवृष्टिं च वर्षताम् ।।6.58.10।।

Meaning