Sarga 14: Prahasta and Vibhīṣaṇa Dispute

प्रहस्तविभीषणविवादः

prahastavibhīṣaṇavivādaḥ — word-by-word gloss for all 22 shlokas.

Jump to a shloka · 22 in this sarga

Page 1 of 322 shlokas in this sarga (verified max-across-sources)
Shloka 14.1Word-by-word available

निशाचरेन्द्रस्य निशम्य वाक्यं स कुम्भकर्णस्य च गर्जितानि । विभीषणो राक्षसराजमुख्यं उवाच वाक्यं हितमर्थयुक्तम् ।।6.14.1।।

Meaning

Shloka 14.2Word-by-word available

वृतो हि बाह्वन्तरभोगराशिश्चिन्ताविषः सुस्मिततीक्ष्णदंष्ट्रः । पञ्चाङ्गुलीपञ्चशिरोतिकायः सीतामहाहिस्तव केन राजन् ।।6.14.2।।

Meaning

Shloka 14.3Word-by-word available

यावन्न लङ्कां समभिद्रवन्ति वलीमुखाः पर्वतकूटमात्राः । दंष्ट्रायुधाश्चैव नखायुधाश्च प्रदीयतां दाशरथाय मैथिली ।।6.14.3।।

Meaning

Shloka 14.4Word-by-word available

यावन्न गृह्णन्ति शिरांसि बाणा रामेरिता राक्षसपुङ्गवानाम् । वज्रोपमा वायुसमानवेगाः प्रदीयतां दाशरथाय मैथिली ।।6.14.4।।

Meaning

Shloka 14.5Word-by-word available

न कुम्भकर्णेन्द्रजितौ न राजा तथा महापार्श्वमहोदरौ वा । निकुम्भकुम्भौ च तथातिकायः स्थातुं न शक्ता युधि राघवस्य ।।6.14.5।।

Meaning

Shloka 14.6Word-by-word available

जीवंस्तु रामस्य न मोक्ष्यसे त्वं गुप्तः सवित्राऽप्यथवा मरुद्भिः । न वासवस्याङ्कगतो न मृत्योर्न खं न पातालमनुप्रविष्टः ।।6.14.6।।

Meaning

Shloka 14.7Word-by-word available

निशम्य वाक्यं तु विभीषणस्य ततः प्रहस्तो वचनं बभाषे । न नो भयं विद्म न दैवतेभ्यो न दानवेभ्यो ह्यथवा कुतश्चित् ।।6.14.7।।

Meaning

Shloka 14.8Word-by-word available

न यक्षगन्धर्वमहोरगेभ्यो भयं न सङ्ख्ये पतगोत्तमेभ्यः । कथं नु रामाद्भविता भयं नो नरेन्द्रपुत्रात्समरे कदाचित् ।।6.14.8।।

Meaning

Shloka 14.9Word-by-word available

प्रहस्तवाक्यं त्वहितं निशम्य विभीषणो राजहितानुकाङ्क्षी । ततो महात्मा वचनं बभाषे धर्मार्थकामेषु निविष्टबुद्धिः ।।6.14.9।।

Meaning

Shloka 14.10Word-by-word available

प्रहस्त राजा च महोदरश्च त्वं कुम्भकर्णश्च यथार्थजातम् । ब्रवीथ रामं प्रति तन्न शक्यं यथा गतिः स्वर्गमधर्मबुद्धेः ।।6.14.10।।

Meaning