Sarga 2: Rāma Encouraged

रामप्रोत्साहनम्

rāmaprotsāhanam — word-by-word gloss for all 25 shlokas.

Jump to a shloka · 25 in this sarga

Page 1 of 325 shlokas in this sarga (verified max-across-sources)
Shloka 2.1Word-by-word available

तं तु शोकपरिद्यूनं रामं दशरथात्मजम् । उवाच वचनं श्रीमान् सुग्रीवः शोकनाशनम् ।।6.2.1।।

Meaning

Shloka 2.2Word-by-word available

किं त्वं सन्तप्यसे वीर यथाऽन्यः प्राकृतस्तथा । मैवं भूस्त्यज सन्तापं कृतघ्न इव सौहृदम् ।।6.2.2।।

Meaning

Shloka 2.3Word-by-word available

सन्तापस्य च ते स्थानं न हि पश्यामि राघव । प्रवृत्तावुपलब्धायां ज्ञाते च निलये रिपोः ।।6.2.3।।

Meaning

Shloka 2.4Word-by-word available

मतिमान् शास्त्रवित्प्राज्ञः पण्डितश्चासि राघव । त्यजेमां पापिकां बुद्धिं कृतात्मेवात्मदूषणीम् ।।6.2.4।।

Meaning

Shloka 2.5Word-by-word available

समुद्रं लङ्घयित्वा तु महानक्रसमाकुलम् । लङ्कामारोहयिष्यामो हनिष्यामश्च ते रिपुम् ।।6.2.5।।

Meaning

Shloka 2.6Word-by-word available

निरुत्साहस्य दीनस्य शोकपर्याकुलात्मनः । सर्वार्था व्यवसीदन्ति व्यसनं चाधिगच्छति ।।6.2.6।।

Meaning

Shloka 2.7Word-by-word available

इमे शूराः समर्थाश्च सर्वे नो हरियूथपाः । त्वत्प्रियार्थं कृतोत्साहाः प्रवेष्टुमपि पावकम् ।।6.2.7।।

Meaning

Shloka 2.8Word-by-word available

एषां हर्षेण जानामि तर्कश्चास्ति दृढो मम । विक्रमेण समानेष्ये सीतां हत्वा यथा रिपुम् ।।6.2.8।।

Meaning

Shloka 2.9Word-by-word available

रावणं पापकर्माणं तथा त्वं कर्तुमर्हसि । सेतुरत्र यथा बध्येद्यथा पश्याम तां पुरीम् ।।6.2.9।।

Meaning

Shloka 2.10Word-by-word available

तस्य राक्षसराजस्य तथा त्वं कुरु राघव । दृष्ट्वा तां तु पुरीं लङ्कां त्रिकूटशिखरे स्थिताम् ।।6.2.10।।

Meaning