Sarga 40: Sugrīva Wrestles Rāvaṇa
रावणसुग्रीवनियुद्धम्
rāvaṇasugrīvaniyuddham — word-by-word gloss for all 30 shlokas.
Jump to a shloka · 30 in this sarga
ततो रामः सुवेलाग्रं योजनद्वयमण्डलम् । आरुरोह ससुग्रीवो हरियूथपसंवृतः ।।6.40.1।।
Meaning
स्थित्वा मुहूर्तं तत्रैव दिशो दश विलोकयन् । त्रिकूटशिखरे रम्ये निर्मितां विश्वकर्मणा ।।6.40.2।।
Meaning
ददर्श लङ्कां सुन्यस्तां रम्यकाननशोभिताम् । तस्यां गोपुरशृङ्गस्थं राक्षसेन्द्रं दुरासदम् ।।6.40.3।।
Meaning
श्वेतचामरपर्यन्तं विजयच्छत्रशोभितम् । रक्तचन्दनसंलिप्तं रत्नाभरणभूषितम् ।।6.40.4।।
Meaning
नीलजीमूतसङ्काशं हेमसञ्छादिताम्बरम् । ऐरावतविषाणाग्रैरुत्कृष्टकिणवक्षसम् ।।6.40.5।।
Meaning
शशलोहितरागेण संवीतं रक्तवाससा । सन्ध्यातपेन संवीतं मेघराशिमिवाम्बरे ।।6.40.6।।
Meaning
पश्यतां वानरेन्द्राणां राघवस्यापि पश्यतः । दर्शनाद्राक्षसेन्द्रस्य सुग्रीवः सहसोत्थितः ।।6.40.7।।
Meaning
क्रोधवेगेन संयुक्तः सत्त्वेन च बलेन च । अचलाग्रादथोत्थाय पुप्लुवे गोपुरस्थले ।।6.40.8।।
Meaning
स्थित्वा मुहूर्तं सम्प्रेक्ष्य निर्भयेनान्तरात्मना । तृणीकृत्य च तद्रक्षः सोऽब्रवीत्परुषं वचः ।।6.40.9।।
Meaning
लोकनाथस्य रामस्य सखा दासोऽस्मि राक्षस । न मया मोक्ष्यसेऽद्य त्वं पार्थिवेन्द्रस्य तेजसा ।।6.40.10।।
Meaning