Sarga 53: Vajradaṃṣṭra's Battle
वज्रदंष्ट्रयुद्धम्
vajradaṃṣṭrayuddham — word-by-word gloss for all 32 shlokas.
Jump to a shloka · 32 in this sarga
धूम्राक्षं निहतं श्रुत्वा रावणो राक्षसेश्वरः । क्रोधेन महताविष्टो निःश्वसन्नुरगो यथा ।।6.53.1।।
Meaning
दीर्घमुष्णं विनिःश्वस्य क्रोधेन कलुषीकृतः । अब्रवीद्राक्षसं शूरं वज्रदंष्ट्रं महाबलम् ।।6.53.2।।
Meaning
गच्छ त्वं वीर निर्याहि राक्षसैः परिवारितः । जहि दाशरथिं रामं सुग्रीवं वानरैः सह ।।6.53.3।।
Meaning
तथेत्युक्त्वा द्रुततरं मायावी राक्षसेश्वरः । निर्जगाम बलैः सार्धं बहुभिः परिवारितः ।।6.53.4।।
Meaning
नागैरश्वैः खरैरुष्ट्रैः संयुक्तः सुसमाहितः । पताकाध्वजचित्रैश्च रथैश्च समलङ्कृतः ।।6.53.5।।
Meaning
ततो विचित्रकेयूरमुकुटैश्च विभूषितः । तनुत्राणि च संरुध्य सधनुर्निर्ययौ द्रुतम् ।।6.53.6।।
Meaning
पताकालङ्कृतं दीप्तं तप्तकाञ्चनभूषणम् । रथं प्रदक्षिणं कृत्वा समारोहच्चमूपतिः ।।6.53.7।।
Meaning
यष्टिभिस्तोमरैश्चित्रैः शूलैश्च मुसलैरपि । भिन्दिपालैश्च पाशैश्च शक्तिभिः पट्टिशैरपि ।।6.53.8।।
Meaning
खड्गैश्चक्रैर्गदाभिश्च निशितैश्च परश्वधैः । पदातयश्च निर्यान्ति विविधाः शस्त्रपाणयः ।।6.53.9।।
Meaning
विचित्रवाससः सर्वे दीप्ता राक्षसपुङ्गवाः । गजा मदोत्कटाः शूराश्चलन्त इव पर्वताः ।।6.53.10।।
Meaning