Sarga 36: The City Gates Guarded
पुरद्वाररक्षा
puradvārarakṣā — word-by-word gloss for all 22 shlokas.
Jump to a shloka · 22 in this sarga
तत्तु माल्यवतो वाक्यं हितमुक्तं दशाननः । न मर्षयति दुष्टात्मा कालस्य वशमागतः ।।6.36.1।।
Meaning
स बद्ध्वा भ्रुकुटिं वक्त्रे क्रोधस्य वशमागतः । अमर्षात्परिवृत्ताक्षो माल्यवन्तमथाब्रवीत् ।।6.36.2।।
Meaning
हितबुद्ध्या यदहितं वचः परुषमुच्यते । परपक्षं प्रविश्यैव नैतच्छ्रोत्रं गतं मम ।।6.36.3।।
Meaning
मानुषं कृपणं राममेकं शाखामृगाश्रयम् । समर्थं मन्यसे केन त्यक्तं पित्रा वनालयम् ।।6.36.4।।
Meaning
रक्षसामीश्वरं मां च देवतानां भयङ्करम् । हीनं मां मन्यसे केन ह्यहीनं सर्वविक्रमैः ।।6.36.5।।
Meaning
वीरद्वेषेण वा शङ्के पक्षपातेन वा रिपोः । त्वयाहं परुषाण्युक्तः परप्रोत्साहनेन वा ।।6.36.6।।
Meaning
प्रभवन्तं पदस्थं हि परुषं कोऽभिधास्यति । पण्डितः शास्त्रतत्त्वज्ञो विना प्रोत्साहनाद्रिपोः ।।6.36.7।।
Meaning
आनीय च वनात्सीतां पद्महीनामिव श्रियम् । किमर्थं प्रतिदास्यामि राघवस्य भयादहम् ।।6.36.8।।
Meaning
वृतं वानरकोटीभिः ससुग्रीवं सलक्ष्मणम् । पश्य कैश्चिदहोभिस्त्वं राघवं निहतं मया ।।6.36.9।।
Meaning
द्वन्द्वे यस्य न तिष्ठन्ति दैवतान्यपि संयुगे । स कस्माद्रावणो युद्धे भयमाहारयिष्यति ।।6.36.10।।
Meaning