Sarga 22: The Bridge Built
सेतुबन्धः
setubandhaḥ — word-by-word gloss for all 88 shlokas.
Jump to a shloka · 88 in this sarga
अथोवाच रघुश्रेष्ठः सागरं दारुणं वचः । अद्य त्वां शोषयिष्यामि सपातालं महार्णव ।।6.22.1।।
Meaning
शरनिर्दग्धतोयस्य परिशुष्कस्य सागर । मया शोषितसत्त्वस्य पांसुरुत्पद्यते महान् ।।6.22.2।।
Meaning
मत्कार्मुकविसृष्टेन शरवर्षेण सागर । पारं तेऽद्य गमिष्यन्ति पद्भिरेव प्लवङ्गमाः ।।6.22.3।।
Meaning
विचिन्वन्नाभिजानासि पौरुषं वाऽपि विक्रमम् । दानवालय सन्तापं मत्तो नाधिगमिष्यसि ।।6.22.4।।
Meaning
ब्राह्मेणास्त्रेण संयोज्य ब्रह्मदण्डनिभं शरम् । संयोज्य धनुषि श्रेष्ठे विचकर्ष महाबलः ।।6.22.5।।
Meaning
तस्मिन्विकृष्टे सहसा राघवेण शरासने । रोदसी सम्पफालेव पर्वताश्च चकम्पिरे ।।6.22.6।।
Meaning
तमश्च लोकमावव्रे दिशश्च न चकाशिरे । परिचुक्षुभिरे चाशु सरांसि सरितस्तथा ।।6.22.7।।
Meaning
तिर्यक्च सह नक्षत्रैः सङ्गतौ चन्द्रभास्करौ । भास्करांशुभिरादीप्तं तमसा च समावृतम् ।।6.22.8।।
Meaning
प्रचकाशे तदाकाशमुल्काशतविदीपितम् । अन्तरिक्षाच्च निर्घाता निर्जग्मुरतुलस्वनाः ।।6.22.9।।
Meaning
पुस्फुरुश्च घना दिव्या दिवि मारुतपङ्क्तयः । बभञ्ज च तदा वृक्षान् जलदानुद्वहन्नपि ।।6.22.10।।
Meaning