Sarga 26: The Monkey Army Surveyed
कपिबलावेक्षणम्
kapibalāvekṣaṇam — word-by-word gloss for all 48 shlokas.
Jump to a shloka · 48 in this sarga
तद्वचः पथ्यमक्लीबं सारणेनाभिभाषितम् । निशम्य रावणो राजा प्रत्यभाषत सारणम् ।।6.26.1।।
Meaning
यदि मामभियुञ्जीरन्देवगन्धर्वदानवाः । नैव सीतां प्रदास्यामि सर्वलोकभयादपि ।।6.26.2।।
Meaning
त्वं तु सौम्य परित्रस्तो हरिभिर्निर्जितो भृशम् । प्रतिप्रदानमद्यैव सीतायाः साधु मन्यसे ।।6.26.3।।
Meaning
को हि नाम सपत्नो मां समरे जेतुमर्हति । इत्युक्त्वा परुषं वाक्यं रावणो राक्षसाधिपः ।।6.26.4।।
Meaning
आरुरोह ततः श्रीमान्प्रासादं हिमपाण्डुरम् । बहुतालसमुत्सेधं रावणोऽथ दिदृक्षया ।।6.26.5।।
Meaning
ताभ्यां चराभ्यां सहितो रावणः क्रोधमूर्छितः । पश्यमानः समुद्रं च पर्वतांश्च वनानि च ।।6.26.6।।
Meaning
ददर्श पृथिवीदेशं सुसम्पूर्णं प्लवङ्गमैः । तदपारमसङ्ख्येयं वानराणां महद्बलम् ।।6.26.7।।
Meaning
आलोक्य रावणो राजा परिपप्रच्छ सारणम् । एषां वानरमुख्यानां के शूराः के महाबलाः ।।6.26.8।।
Meaning
के पूर्वमभिवर्तन्ते महोत्साहाः समन्ततः । केषां शृणोति सुग्रीवः के वा यूथपयूथपाः ।।6.26.9।।
Meaning
सारणाचक्ष्व तत्त्वेन के प्रधानाः प्लवङ्गमाः । सारणो राक्षसेन्द्रस्य वचनं परिपृच्छतः ।।6.26.10।।
Meaning