Sarga 62: Rāvaṇa's Request
रावणाभ्यर्थना
rāvaṇābhyarthanā — word-by-word gloss for all 23 shlokas.
Jump to a shloka · 23 in this sarga
स तु राक्षसशार्दूलो निद्रामदसमाकुलः । राजमार्गं श्रिया जुष्टं ययौ विपुलविक्रमः ।।6.62.1।।
Meaning
राक्षसानां सहस्रैश्च वृतः परमदुर्जयः । गृहेभ्यः पुष्पवर्षेण कीर्यमाणस्तदा ययौ ।।6.62.2।।
Meaning
स हेमजालविततं भानुभास्वरदर्शनम् । ददर्श विपुलं रम्यं राक्षसेन्द्रनिवेशनम् ।।6.62.3।।
Meaning
स तत्तदा सूर्य इवाभ्रजालं प्रविश्य रक्षोऽधिपतेर्निवेशम् । ददर्श दूरेऽग्रजमासनस्थं स्वयम्भुवं शक्र इवासनस्थम् ।।6.62.4।।
Meaning
भ्रातुः स भवनं गच्छन्रक्षोगणसमन्वितम् । कुम्भकर्णः पदन्यासैरकम्पयत मेदिनीम् ।।6.62.5।।
Meaning
सोऽभिगम्य गृहं भ्रातुः कक्ष्यामभिविगाह्य च । ददर्शोद्विग्नमासीनं विमाने पुष्पके गुरुम् ।।6.62.6।।
Meaning
अथ दृष्ट्वा दशग्रीवः कुम्भकर्णमुपस्थितम् । तूर्णमुत्थाय संहृष्टः सन्निकर्षमुपानयत् ।।6.62.7।।
Meaning
अथासीनस्य पर्यङ्के कुम्भकर्णो महाबलः । भ्रातुर्ववन्दे चरणौ किं कृत्यमिति चाब्रवीत् ।।6.62.8।।
Meaning
उत्पत्य चैनं मुदितो रावणः परिषस्वजे । स भ्रात्रा सम्परिष्वक्तो यथावच्छाभिनन्दितः ।।6.62.9।।
Meaning
कुम्भकर्णः शुभं दिव्यं प्रतिपेदे वरासनम् । स तदासनमाश्रित्य कुम्भकर्णो महाबलः ।।6.62.10।।
Meaning