Sarga 27: The Valour of Hara and Others Told

हरादिवानरपराक्रमाख्यानम्

harādivānaraparākramākhyānam — word-by-word gloss for all 49 shlokas.

Page 1 of 549 shlokas in this sarga (verified max-across-sources)
Shloka 27.1Word-by-word available

तांस्तु तेऽहं प्रवक्ष्यामि प्रेक्षमाणस्य यूथपान् । राघवार्थे पराक्रान्ता ये न रक्षन्ति जीवितम् ।।6.27.1।।

Meaning

Shloka 27.2Word-by-word available

स्निग्धा यस्य बहुव्यामा वाला लाङ्गूलमाश्रिताः । ताम्राः पीताः सिताः श्वेताः प्रकीर्णा घोरकर्मणः ।।6.27.2।।

Meaning

Shloka 27.3Word-by-word available

प्रगृहीताः प्रकाशन्ते सूर्यस्येव मरीचयः । पृथिव्यां चानुकृष्यन्ते हरो नामैष यूथपः ।।6.27.3।।

Meaning

Shloka 27.4Word-by-word available

यं पृष्ठतोऽनुगच्छन्ति शतशोऽथ सहस्रशः । द्रुमानुद्यम्य सहसा लङ्कारोहणतत्पराः ।।6.27.4।।

Meaning

Shloka 27.5Word-by-word available

एष कोटिसहस्रेण वानराणां महौजसाम् । आकाङ्क्षते त्वां सङ्ग्रामे जेतुं परपुरञ्जय ।।6.27.5।।

Meaning

Shloka 27.6Word-by-word available

यूथपा हरिराजस्य किङ्कराः समुपस्थिताः । नीलानिव महामेघांस्तिष्ठतो यांस्तु पश्यसि ।।6.27.6।।

Meaning

Shloka 27.7Word-by-word available

असिताञ्जनसङ्काशान्युद्धे सत्यपराक्रमान् । असङ्ख्येयाननिर्देश्यान्परं पारमिवोदधेः ।।6.27.7।।

Meaning

Shloka 27.8Word-by-word available

पर्वतेषु च ये केचिद्विषमेषु नदीषु च । एते त्वामभिवर्तन्ते राजन्नृक्षाः सुदारुणाः ।।6.27.8।।

Meaning

Shloka 27.9Word-by-word available

एषां मध्ये स्थितो राजन्भीमाक्षो भीमदर्शनः । पर्जन्य इव जीमूतैः समन्तात्परिवारितः ।।6.27.9।।

Meaning

Shloka 27.10Word-by-word available

ऋक्षवन्तं गिरिश्रेष्ठमध्यास्ते नर्मदां पिबन् । सर्वर्क्षाणामधिपतिर्धूम्रो नामैष यूथपः ।।6.27.10।।

Meaning