Sarga 61: Kumbhakarṇa's Story Told
कुम्भकर्णवृत्तकथनम्
kumbhakarṇavṛttakathanam — word-by-word gloss for all 40 shlokas.
Jump to a shloka · 40 in this sarga
ततो रामो महातेजा धनुरादाय वीर्यवान् । किरीटिनं महाकायं कुम्भकर्णं ददर्श ह ।।6.61.1।।
Meaning
तं दृष्ट्वा राक्षसश्रेष्ठं पर्वताकारदर्शनम् । क्रममाणमिवाकाशं पुरा नारायणं प्रभुम् ।।6.61.2।।
Meaning
सतोयाम्बुदसङ्काशं काञ्चनाङ्गदभूषणम् । दृष्ट्वा पुनः प्रदुद्राव वानराणां महाचमूः ।।6.61.3।।
Meaning
विद्रुतां वाहिनीं दृष्ट्वा वर्धमानं च राक्षसम् । सविस्मयमिदं रामो विभीषणमुवाच ह ।।6.61.4।।
Meaning
कोऽसौ पर्वतसङ्काशः किरीटी हरिलोचनः । लङ्कायां दृश्यते वीर सविद्युदिव तोयदः ।।6.61.5।।
Meaning
पृथिव्याः केतुभूतोऽसौ महानेकोऽत्र दृश्यते । यं दृष्ट्वा वानराः सर्वे विद्रवन्ति ततस्ततः ।।6.61.6।।
Meaning
आचक्ष्व मे महान्कोऽसौ रक्षो वा यदि वासुरः । न मयैवंविधं भूतं दृष्टपूर्वं कदाचन ।।6.61.7।।
Meaning
स पृष्टो राजपुत्रेण रामेणाक्लिष्टकर्मणा । विभीषणो महाप्राज्ञः काकुत्स्थमिदमब्रवीत् ।।6.61.8।।
Meaning
येन वैवस्वतो युद्धे वासवश्च पराजितः । सैष विश्रवसः पुत्रः कुम्भकर्णः प्रतापवान् । अस्य प्रमाणात्सदृशो राक्षसोऽन्यो न विद्यते ।।6.61.9।।
Meaning
एतेन देवा युधि दानवाश्च यक्षा भुजङ्गाः पिशिताशनाश्च । गन्धर्वविद्याधरकिन्नराश्च सहस्रशो राघव सम्प्रभग्नाः ।।6.61.10।।
Meaning