Sarga 61: Kumbhakarṇa's Story Told
कुम्भकर्णवृत्तकथनम्
kumbhakarṇavṛttakathanam — word-by-word gloss for all 40 shlokas.
Jump to a shloka · 40 in this sarga
शूलपाणिं विरूपाक्षं कुम्भकर्णं महाबलम् । हन्तुं न शेकुस्त्रिदशाः कालोऽयमिति मोहिताः ।।6.61.11।।
Meaning
प्रकृत्या ह्येष तेजस्वी कुम्भकर्णो महाबलः । अन्येषां राक्षसेन्द्राणां वरदानकृतं बलम् ।।6.61.12।।
Meaning
एतेन जातमात्रेण क्षुधार्तेन महात्मना । भक्षितानि सहस्राणि सत्त्वानां सुबहून्यपि ।।6.61.13।।
Meaning
तेषु सम्भक्ष्यमाणेषु प्रजा भयनिपीडिताः । यान्ति स्म शरणं शक्रं तमप्यर्थं न्यवेदयन् ।।6.61.14।।
Meaning
स कुम्भकर्णं कुपितो महेन्द्रो जघान वज्रेण शितेन वज्री । स शक्रवज्राभिहतो महात्मा चचाल कोपाच्च भृशं ननाद ।।6.61.15।।
Meaning
तस्य नानद्यमानस्य कुम्भकर्णस्य धीमतः । श्रुत्वातिनादं वित्रस्ता भूयो भूमिर्वितत्रसे ।।6.61.16।।
Meaning
तत्र कोपान्महेन्द्रस्य कुम्भकर्णो महाबलः । विकृष्यैरावताद्दन्तं जघानोरसि वासवम् ।।6.61.17।।
Meaning
कुम्भकर्णप्रहारार्तो विजज्वाल स वासवः । ततो विषेदुः सहसा देवब्रह्मर्षिदानवाः ।।6.61.18।।
Meaning
प्रजाभिः सह शक्रश्च ययौ स्थानं स्वयम्भुवः । कुम्भकर्णस्य दौरात्म्यं शशंसुस्ते प्रजापतेः ।।6.61.19।।
Meaning
प्रजानां भक्षणं चापि देवानां चापि धर्षणम् । आश्रमध्वंसनं चापि परस्त्रीहरणं भृशम् ।।6.61.20।।
Meaning