Sarga 45: Bound by the Serpent Weapon

नागपाशबन्धः

nāgapāśabandhaḥ — word-by-word gloss for all 28 shlokas.

Jump to a shloka · 28 in this sarga

Page 1 of 328 shlokas in this sarga (verified max-across-sources)
Shloka 45.1Word-by-word available

स तस्य गतिमन्विच्छन्राजपुत्रः प्रतापवान् । दिदेशातिबलो रामो दश वानरयूथपान् ।।6.45.1।।

Meaning

Shloka 45.2Word-by-word available

द्वौ सुषेणस्य दायादौ नीलं च प्लवगर्षभम् । अङ्गदं वालिपुत्रं च शरभं च तरस्विनम् ।।6.45.2।।

Meaning

Shloka 45.3Word-by-word available

विनतं जाम्बवन्तं च सानुप्रस्थं महाबलम् । ऋषभं चर्षभस्कन्धमादिदेश परन्तपः ।।6.45.3।।

Meaning

Shloka 45.4Word-by-word available

ते सम्प्रहृष्टा हरयो भीमानुद्यम्य पादपान् । आकाशं विविशुः सर्वे मार्गमाणा दिशो दश ।।6.45.4।।

Meaning

Shloka 45.5Word-by-word available

तेषां वेगवतां वेगमिषुभिर्वेगवत्तरैः । अस्त्रवित्परमास्त्रैस्तु वारयामास रावणिः ।।6.45.5।।

Meaning

Shloka 45.6Word-by-word available

तं भीमवेगा हरयो नाराचैः क्षतविग्रहाः । अन्धकारे न ददृशुर्मेघैः सूर्यमिवावृतम् ।।6.45.6।।

Meaning

Shloka 45.7Word-by-word available

रामलक्ष्मणयोरेव सर्वदेहभिदः शरान् । भृशमावेशयामास रावणिः समितिञ्जयः ।।6.45.7।।

Meaning

Shloka 45.8Word-by-word available

निरन्तरशरीरौ तौ भ्रातरौ रामलक्ष्मणौ । क्रुद्धेनेन्द्रजिता वीरौ पन्नगैः शरतां गतैः ।।6.45.8।।

Meaning

Shloka 45.9Word-by-word available

तयोः क्षतजमार्गेण सुस्राव रुधिरं बहु । तावुभौ च प्रकाशेते पुष्पिताविव किंशुकौ ।।6.45.9।।

Meaning

Shloka 45.10Word-by-word available

ततः पर्यन्तरक्ताक्षो भिन्नाञ्जनचयोपमः । रावणिर्भ्रातरौ वाक्यमन्तर्धानगतोऽब्रवीत् ।।6.45.10।।

Meaning