Sarga 5: Rāma's Longing

रामविप्रलम्भः

rāmavipralambhaḥ — word-by-word gloss for all 23 shlokas.

Jump to a shloka · 23 in this sarga

Page 1 of 323 shlokas in this sarga (verified max-across-sources)
Shloka 5.1Word-by-word available

सा तु नीलेन विधिवत्स्वारक्षा सुसमाहिता । सागरस्योत्तरे तीरे साधु सेना निवेशिता ।।6.5.1।।

Meaning

Shloka 5.2Word-by-word available

मैन्दश्च द्विविदश्चोभौ तत्र वानरपुङ्गवौ । विचेरतुश्च तां सेनां रक्षार्थं सर्वतो दिशम् ।।6.5.2।।

Meaning

Shloka 5.3Word-by-word available

निविष्टायां तु सेनायां तीरे नदनदीपतेः । पार्श्वस्थं लक्ष्मणं दृष्ट्वा रामो वचनमब्रवीत् ।।6.5.3।।

Meaning

Shloka 5.4Word-by-word available

शोकश्च किल कालेन गच्छता ह्यपगच्छति । मम चापश्यतः कान्तामहन्यहनि वर्धते ।।6.5.4।।

Meaning

Shloka 5.5Word-by-word available

न मे दुःखं प्रिया दूरे न मे दुःखं हृतेति वा । एतदेवानुशोचामि वयोऽस्या ह्यतिवर्तते ।।6.5.5।।

Meaning

Shloka 5.6Word-by-word available

वाहि वात यतः कान्ता तां स्पृष्ट्वा मामपि स्पृश । त्वयि मे गात्रसंस्पर्शश्चन्द्रे दृष्टिसमागमः ।।6.5.6।।

Meaning

Shloka 5.7Word-by-word available

तन्मे दहति गात्राणि विषं पीतमिवाशये । हा नाथेति प्रिया सा मां ह्रियमाणा यदब्रवीत् ।।6.5.7।।

Meaning

Shloka 5.8Word-by-word available

तद्वियोगेन्धनवता तच्चिन्ताविपुलार्चिषा । रात्रिंदिवं शरीरं मे दह्यते मदनाग्निना ।।6.5.8।।

Meaning

Shloka 5.9Word-by-word available

अवगाह्यार्णवं स्वप्स्ये सौमित्रे भवता विना । कथञ्चित्प्रज्वलन्कामः स मा सुप्तं जले दहेत् ।।6.5.9।।

Meaning

Shloka 5.10Word-by-word available

बह्वेतत्कामयानस्य शक्यमेतेन जीवितुम् । यदहं सा च वामोरूरेकां धरणिमाश्रितौ ।।6.5.10।।

Meaning