Sarga 51: Dhūmrākṣa Marches Out

धूम्राक्षाभिषेणनम्

dhūmrākṣābhiṣeṇanam — word-by-word gloss for all 36 shlokas.

Page 1 of 436 shlokas in this sarga (verified max-across-sources)
Shloka 51.1Word-by-word available

तेषां सुतुमुलं शब्दं वानराणां तरस्विनाम् । नर्दतां राक्षसैः सार्धं तदा शुश्राव रावणः ।।6.51.1।।

Meaning

Shloka 51.2Word-by-word available

स्निग्धगम्भीरनिर्घोषं श्रुत्वा स निनदं भृशम् । सचिवानां ततस्तेषां मध्ये वचनमब्रवीत् ।।6.51.2।।

Meaning

Shloka 51.3Word-by-word available

यथासौ सम्प्रहृष्टानां वानराणां समुत्थितः । बहूनां सुमहानादो मेघानामिव गर्जताम् ।।6.51.3।।

Meaning

Shloka 51.4Word-by-word available

व्यक्तं सुमहती प्रीतिरेतेषां नात्र संशयः । तथा हि विपुलैर्नादैश्चुक्षुभे वरुणालयः ।।6.51.4।।

Meaning

Shloka 51.5Word-by-word available

तौ तु बद्धौ शरैस्तीक्ष्णैर्भ्रातरौ रामलक्ष्मणौ । अयं च सुमहान्नादः शङ्कां जनयतीव मे ।।6.51.5।।

Meaning

Shloka 51.6Word-by-word available

एतत्तु वचनं चोक्त्वा मन्त्रिणो राक्षसेश्वरः । उवाच नैरृतांस्तत्र समीपपरिवर्तिनः ।।6.51.6।।

Meaning

Shloka 51.7Word-by-word available

ज्ञायतां तूर्णमेतेषां सर्वेषां वनचारिणाम् । शोककाले समुत्पन्ने हर्षकारणमुत्थितम् ।।6.51.7।।

Meaning

Shloka 51.8Word-by-word available

तथोक्तास्तेन सम्भ्रान्ताः प्राकारमधिरुह्य ते । ददृशुः पालितां सेनां सुग्रीवेण महात्मना ।।6.51.8।।

Meaning

Shloka 51.9Word-by-word available

तौ च मुक्तौ सुघोरेण शरबन्धेन राघवौ । समुत्थितौ महावेगौ विषेदुः प्रेक्ष्य राक्षसाः ।।6.51.9।।

Meaning

Shloka 51.10Word-by-word available

सन्त्रस्तहृदयाः सर्वे प्राकारादवरुह्य ते । विषण्णवदना घोरा राक्षसेन्द्रमुपस्थिताः ।।6.51.10।।

Meaning