Sarga 32: Sītā's Lament
सीताविलापः
sītāvilāpaḥ — word-by-word gloss for all 45 shlokas.
Jump to a shloka · 45 in this sarga
सा सीता तच्छिरो दृष्ट्वा तच्च कार्मुकमुत्तमम् । सुग्रीवप्रतिसंसर्गमाख्यातं च हनूमता ।।6.32.1।।
Meaning
नयने मुखवर्णं च भर्तुस्तत्सदृशं मुखम् । केशान्केशान्तदेशं च तं च चूडामणिं शुभम् ।।6.32.2।।
Meaning
एतैः सर्वैरभिज्ञानैरभिज्ञाय सुदुःखिता । विजगर्हेऽत्र कैकेयीं क्रोशन्ती कुररी यथा ।।6.32.3।।
Meaning
सकामा भव कैकेयि हतोऽयं कुलनन्दनः । कुलमुत्सादितं सर्वं त्वया कलहशीलया ।।6.32.4।।
Meaning
आर्येण किं ते कैकेयि कृतं रामेण विप्रियम् । तद्गृहाच्चीरवसनं दत्त्वा प्रव्राजितो वनम् ।।6.32.5।।
Meaning
एवमुक्त्वा तु वैदेही वेपमाना तपस्विनी ।।6.32.6।।
Meaning
जगाम जगतीं बाला छिन्ना तु कदली यथा । सा मुहूर्तात्समाश्वास्य प्रतिलभ्य च चेतनाम् ।।6.32.7।।
Meaning
तच्छिरः समुपाघ्राय विललापायतेक्षणा । हा हताऽस्मि महाबाहो वीरव्रतमनुव्रता ।।6.32.8।।
Meaning
इमां ते पश्चिमावस्थां गताऽस्मि विधवा कृता । प्रथमं मरणं नार्यो भर्तुर्वैगुण्यमुच्यते ।।6.32.9।।
Meaning
सुवृत्तः साधुवृत्तायाः संवृत्तस्त्वं ममाग्रतः । दुःखाद्दुःखं प्रपन्नाया मग्नाया शोकसागरे ।।6.32.10।।
Meaning