Sarga 32: Sītā's Lament
सीताविलापः
sītāvilāpaḥ — word-by-word gloss for all 45 shlokas.
Jump to a shloka · 45 in this sarga
यो हि मामुद्यतस्त्रातुं सोऽपि त्वं विनिपातितः । सा श्वश्रूर्मम कौसल्या त्वया पुत्रेण राघव ।।6.32.11।।
Meaning
वत्सेनेव यथा धेनुर्विवत्सा वत्सला कृता । आदिष्टं दीर्घमायुस्ते यैरचिन्त्यपराक्रम ।।6.32.12।।
Meaning
अनृतं वचनं तेषामल्पायुरसि राघव । अथवा नश्यति प्रज्ञा प्राज्ञस्यापि सतस्तव ।।6.32.13।।
Meaning
पचत्येनं यथा कालो भूतानां प्रभवो ह्ययम् । अदृष्टं मृत्युमापन्नः कस्मात्त्वं नयशास्त्रवित् ।।6.32.14।।
Meaning
व्यसनानामुपायज्ञः कुशलो ह्यसि वर्जने । तथा त्वं सम्परिष्वज्य रौद्रयातिनृशंसया ।।6.32.15।।
Meaning
कालरात्र्या ममाच्छिद्य हृतः कमललोचन । उपशेषे महाबाहो मां विहाय तपस्विनीम् ।।6.32.16।।
Meaning
प्रियामिव समाश्लिष्य पृथिवीं पुरुषर्षभ । अर्चितं सततं यत्तद्गन्धमाल्यैर्मया तव ।।6.32.17।।
Meaning
इदं ते मत्प्रियं वीर धनुः काञ्चनभूषणम् । पित्रा दशरथेन त्वं श्वशुरेण ममानघ ।।6.32.18।।
Meaning
सर्वैश्च पितृभिः सार्धं नूनं स्वर्गे समागतः । दिवि नक्षत्रभूतस्त्वं महत्कर्मकृतां प्रियम् ।।6.32.19।।
Meaning
पुण्यं राजर्षिवंशं त्वमात्मनः समवेक्षसे । किं मां न प्रेक्षसे राजन् किं मां न प्रतिभाषसे ।।6.32.20।।
Meaning