Sarga 35: Mālyavān's Advice
माल्यवदुपदेशः
mālyavadupadeśaḥ — word-by-word gloss for all 38 shlokas.
Jump to a shloka · 38 in this sarga
तेन शङ्खविमिश्रेण भेरीशब्देन राघवः । उपयाति महाबाहू रामः परपुरञ्जयः ।।6.35.1।।
Meaning
तं निनादं निशम्याथ रावणो राक्षसेश्वरः । मुहूर्तं ध्यानमास्थाय सचिवानभ्युदैक्षत ।।6.35.2।।
Meaning
अथ तान्सचिवांस्तत्र सर्वानाभाष्य रावणः । सभां सन्नादयन्सर्वामित्युवाच महाबलः ।।6.35.3।।
Meaning
जगत्सन्तापनः क्रूरो गर्हयन्राक्षसेश्वरः । तरणं सागरस्यापि विक्रमं बलसञ्चयम् ।।6.35.4।।
Meaning
यदुक्तवन्तो रामस्य भवन्तस्तन्मया श्रुतम् । भवतश्चाप्यहं वेद्मि युद्धे सत्यपराक्रमान् ।।6.35.5।।
Meaning
तूष्णीकानीक्षतोऽन्योन्यं विदित्वा रामविक्रमम् । ततस्तु सुमहाप्राज्ञो माल्यवान्नाम राक्षसः ।।6.35.6।।
Meaning
रावणस्य वचः श्रुत्वा इति मातामहोऽब्रवीत् । विद्यास्वभिविनीतो यो राजा राजन्नयानुगः ।।6.35.7।।
Meaning
स शास्ति चिरमैश्वर्यमरींश्च कुरुते वशे । सन्दधानो हि कालेन विगृह्णंश्चारिभिः सह ।।6.35.8।।
Meaning
स्वपक्षवर्धनं कुर्वन्महदैश्वर्यमश्नुते । हीयमानेन कर्तव्यो राज्ञा सन्धिः समेन च ।।6.35.9।।
Meaning
न शत्रुमवमन्येत ज्यायान्कुर्वीत विग्रहम् । तन्मह्यं रोचते सन्धिः सह रामेण रावण ।।6.35.10।।
Meaning