Sarga 57: Prahasta's Battle
प्रहस्तयुद्धम्
prahastayuddham — word-by-word gloss for all 46 shlokas.
Jump to a shloka · 46 in this sarga
अकम्पनवधं श्रुत्वा क्रुद्धो वै राक्षसेश्वरः । किञ्चिद्दीनमुखश्चापि सचिवांस्तानुदैक्षत ।।6.57.1।।
Meaning
स तु ध्यात्वा मुहूर्तं तु मन्त्रिभिः संविचार्य च । ततस्तु रावणः पूर्वदिवसे राक्षसाधिपः ।।6.57.2।।
Meaning
पुरीं परिययौ लङ्कां सर्वान्गुल्मानवेक्षितुम् । तां राक्षसगणैर्गुप्तां गुल्मैर्बहुभिरावृताम् ।।6.57.3।।
Meaning
ददर्श नगरीं लङ्कां पताकाध्वजमालिनीम् । रुद्धां तु नगरीं दृष्ट्वा रावणो राक्षसेश्वरः ।।6.57.4।।
Meaning
उवाचामर्षतः काले प्रहस्तं युद्धकोविदम् । पुरस्योपनिविष्टस्य सहसा पीडितस्य वा ।।6.57.5।।
Meaning
नान्यं युद्धात्प्रपश्यामि मोक्षं युद्धविशारद । अहं वा कुम्भकर्णो वा त्वं वा सेनापतिर्मम ।।6.57.6।।
Meaning
इन्द्रजिद्वा निकुम्भो वा वहेयुर्भारमीदृशम् । स त्वं बलमतः शीघ्रमादाय परिगृह्य च ।।6.57.7।।
Meaning
विजयायाभिनिर्याहि यत्र सर्वे वनौकसः । निर्याणादेव ते नूनं चपला हरिवाहिनी ।।6.57.8।।
Meaning
नर्दतां राक्षसेन्द्राणां श्रुत्वा नादं द्रविष्यति । चपला ह्यविनीताश्च चलचित्ताश्च वानराः ।।6.57.9।।
Meaning
न सहिष्यन्ति ते नादं सिंहनादमिव द्विपाः । विद्रुते च बले तस्मिन्रामः सौमित्रिणा सह ।।6.57.10।।
Meaning