Sarga 11: The Second Council Assembles
द्वितीयमन्त्राधिवेशः
dvitīyamantrādhiveśaḥ — word-by-word gloss for all 33 shlokas.
Jump to a shloka · 33 in this sarga
स बभूव कृशो राजा मैथिलीकाममोहितः । असम्मानाच्च सुहृदां पापः पापेन कर्मणा ।।6.11.1।।
Meaning
अतीतसमये काले तस्मिन् वै युधि रावणः । अमात्यैश्च सुहृद्भिश्च प्राप्तकालममन्यत ।।6.11.2।।
Meaning
स हेमजालविततं मणिविद्रुमभूषितम् । उपगम्य विनीताश्वमारुरोह महारथम् ।।6.11.3।।
Meaning
तमास्थाय रथश्रेष्ठं महामेघसमस्वनम् । प्रययौ रक्षसश्रेष्ठो दशग्रीवः सभां प्रति ।।6.11.4।।
Meaning
असिचर्मधरा योधाः सर्वायुधधरास्तथा । राक्षसा राक्षसेन्द्रस्य पुरतः सम्प्रतस्थिरे ।।6.11.5।।
Meaning
नानाविकृतवेषाश्च नानाभूषणभूषिताः । पार्श्वतः पृष्ठतश्चैनं परिवार्य ययुस्ततः ।।6.11.6।।
Meaning
रथैश्चातिरथाः शीघ्रं मत्तैश्च वरवारणैः । अनूत्पेतुर्दशग्रीवमाक्रीडद्भिश्च वाजिभिः ।।6.11.7।।
Meaning
गदापरिघहस्ताश्च शक्तितोमरपाणयः । परश्वधधराश्चान्ये तथाऽन्ये शूलपाणयः ।।6.11.8।।
Meaning
ततस्तूर्यसहस्राणां संजज्ञे निस्वनो महान् । तुमुलः शङ्खशब्दश्च सभां गच्छति रावणे ।।6.11.9।।
Meaning
स नेमिघोषेण महान् सहसाऽभिविनादयन् । राजमार्गं श्रिया जुष्टं प्रतिपेदे महारथः ।।6.11.10।।
Meaning