Sarga 94: Bewildered by the Gāndharva Weapon
गान्धर्वास्त्रमोहनम्
gāndharvāstramohanam — word-by-word gloss for all 39 shlokas.
Jump to a shloka · 39 in this sarga
स प्रविश्य सभां राजा दीनः परमदुःखितः । निषसादासने मुख्ये सिंहः क्रुद्ध इव श्वसन् ।।6.94.1।।
Meaning
अब्रवीच्च स तान्सर्वान्बलमुख्यान्महाबलः । रावणः प्राञ्जलिर्वाक्यं पुत्रव्यसनकर्शितः ।।6.94.2।।
Meaning
सर्वे भवन्तः सर्वेण हस्त्यश्वेन समावृताः । निर्यान्तु रथसङ्घैश्च पादातैश्चोपशोभिताः ।।6.94.3।।
Meaning
एकं रामं परिक्षिप्य समरे हन्तुमर्हथ । वर्षन्तः शरवर्षेण प्रावृट्काल इवाम्बुदाः ।।6.94.4।।
Meaning
अथवाऽहं शरैस्तीक्ष्णैर्भिन्नगात्रं महारणे । भवद्भिः श्वो निहन्तास्मि रामं लोकस्य पश्यतः ।।6.94.5।।
Meaning
इत्येतद्राक्षसेन्द्रस्य वाक्यमादाय राक्षसाः । निर्ययुस्ते रथैः शीघ्रैर्नानानीकैः सुसंवृताः ।।6.94.6।।
Meaning
परिघान्पट्टिशांश्चैव शरखड्गपरश्वधान् । शरीरान्तकरान्सर्वे चिक्षिपुर्वानरान्प्रति ।।6.94.7।।
Meaning
वानराश्च द्रुमान् शैलान्राक्षसान्प्रति चिक्षिपुः । स सङ्ग्रामो महान्भीमः सूर्यस्योदयनं प्रति ।।6.94.8।।
Meaning
रक्षसां वानराणां च तुमुलः समपद्यत । ते गदाभिर्विचित्राभिः प्रासैः खड्गैः परश्वधैः ।।6.94.9।।
Meaning
अन्योन्यं समरे जघ्नुस्तदा वानरराक्षसाः । एवं प्रवृत्ते सङ्ग्रामे ह्युद्भूतं सुमहद्रजः ।।6.94.10।।
Meaning