Sarga 98: Mahodara Slain

महोदरवधः

mahodaravadhaḥ — word-by-word gloss for all 38 shlokas.

Page 1 of 438 shlokas in this sarga (verified max-across-sources)
Shloka 98.1Word-by-word available

हन्यमाने बले तूर्णमन्योन्यं ते महामृधे । सरसीव महाघर्मे सूपक्षीणे बभूवतुः ।।6.98.1।।

Meaning

Shloka 98.2Word-by-word available

स्वबलस्य विघातेन विरूपाक्षवधेन च । बभूव द्विगुणं क्रुद्धो रावणो राक्षसाधिपः ।।6.98.2।।

Meaning

Shloka 98.3Word-by-word available

प्रक्षीणं तु बलं दृष्ट्वा वध्यमानं वलीमुखैः । बभूवास्य व्यथा युद्धे प्रेक्ष्य दैवविपर्ययम् ।।6.98.3।।

Meaning

Shloka 98.4Word-by-word available

उवाच च समीपस्थं महोदरमरिन्दमम् । अस्मिन्काले महाबाहो जयाशा त्वयि मे स्थिता ।।6.98.4।।

Meaning

Shloka 98.5Word-by-word available

जहि शत्रुचमूं वीर दर्शयाद्य पराक्रमम् । भर्तृपिण्डस्य कालोऽयं निर्देष्टुं साधु युध्यताम् ।।6.98.5।।

Meaning

Shloka 98.6Word-by-word available

एवमुक्तस्तथेत्युक्त्वा राक्षसेन्द्रो महोदरः । प्रविवेशारिसेनां तां पतङ्ग इव पावकम् ।।6.98.6।।

Meaning

Shloka 98.7Word-by-word available

ततः स कदनं चक्रे वानराणां महाबलः । भर्तृवाक्येन तेजस्वी स्वेन वीर्येण चोदितः ।।6.98.7।।

Meaning

Shloka 98.8Word-by-word available

वानराश्च महासत्त्वाः प्रगृह्य विपुलाः शिलाः । प्रविश्यारिबलं भीमं जघ्नुस्ते रजनीचरान् ।।6.98.8।।

Meaning

Shloka 98.9Word-by-word available

महोदरस्तु सङ्क्रुद्धः शरैः काञ्चनभूषणैः । चिच्छेद पाणिपादोरून्वानराणां महाहवे ।।6.98.9।।

Meaning

Shloka 98.10Word-by-word available

ततस्ते वानराः सर्वे राक्षसैरर्दिता भृशम् । दिशो दश द्रुताः केचित्केचित्सुग्रीवमाश्रिताः ।।6.98.10।।

Meaning