Sarga 129: Hanumān Tells Bharata the Story
हनूमद्भरतसम्भाषणम्
hanūmadbharatasambhāṣaṇam — word-by-word gloss for all 54 shlokas.
Jump to a shloka · 54 in this sarga
बहूनि नाम वर्षाणि गतस्य सुमहद्वनम् । शृणोम्यहं प्रीतिकरं मम नाथस्य कीर्तनम् ।।6.129.1।।
Meaning
कल्याणी बत गाथेयं लौकिकी प्रतिभाति मे । एति जीवन्तमानन्दो नरं वर्षशतादपि ।।6.129.2।।
Meaning
राघवस्य हरीणां च कथमासीत्समागमः । कस्मिन्देशे किमाश्रित्य तत्त्वमाख्याहि पृच्छतः ।।6.129.3।।
Meaning
स पृष्टो राजपुत्रेण बृस्यां समुपवेशितः । आचचक्षे ततः सर्वं रामस्य चरितं वने ।।6.129.4।।
Meaning
यथा प्रव्राजितो रामो मातुर्दत्तो वरस्तव । यथा च पुत्रशोकेन राजा दशरथो मृतः ।।6.129.5।।
Meaning
यथा दूतैस्त्वमानीतस्तूर्णं राजगृहात्प्रभो । त्वयाऽयोध्यां प्रविष्टेन यथा राज्यं न चेप्सितम् ।।6.129.6।।
Meaning
चित्रकूटं गिरिं गत्वा राज्येनामित्रकर्शनः । निमन्त्रितस्त्वया भ्राता धर्ममाचरिता सताम् ।।6.129.7।।
Meaning
स्थितेन राज्ञो वचने यथा राज्यं विसर्जितम् । आर्यस्य पादुके गृह्य यथाऽसि पुनरागतः ।।6.129.8।।
Meaning
सर्वमेतन्महाबाहो यथावद्विदितं तव । त्वयि प्रतिप्रयाते तु यद्वृत्तं तन्निबोध मे ।।6.129.9।।
Meaning
अपयाते त्वयि तदा समुद्भ्रान्तमृगद्विजम् । परिद्यूनमिवात्यर्थं तद्वनं समपद्यत ।।6.129.10।।
Meaning