Sarga 78: Makarākṣa Marches Out
मकराक्षाभिषेणनम्
makarākṣābhiṣeṇanam — word-by-word gloss for all 21 shlokas.
Jump to a shloka · 21 in this sarga
निकुम्भं च हतं श्रुत्वा कुम्भं च विनिपातितम् । रावणः परमामर्षी प्रजज्वालानलो यथा ।।6.78.1।।
Meaning
नैरृतः क्रोधशोकाभ्यां द्वाभ्यां तु परिमूर्छितः । खरपुत्रं विशालाक्षं मकराक्षमचोदयत् ।।6.78.2।।
Meaning
गच्छ पुत्र मयाज्ञप्तो बलेनाभिसमन्वितः । राघवं लक्ष्मणं चैव जहि तांश्च वनौकसः ।।6.78.3।।
Meaning
रावणस्य वचः श्रुत्वा शूरमानी खरात्मजः । बाढमित्यब्रवीद्धृष्टो मकराक्षो निशाचरः ।।6.78.4।।
Meaning
सोऽभिवाद्य दशग्रीवं कृत्वा चापि प्रदक्षिणम् । निर्जगाम गृहाच्छुभ्राद्रावणस्याज्ञया बली ।।6.78.5।।
Meaning
समीपस्थं बलाध्यक्षं खरपुत्रोऽब्रवीदिदम् । रथश्चानीयतां शीघ्रं सैन्यं चाहूयतां त्वरात् ।।6.78.6।।
Meaning
तस्य तद्वचनं श्रुत्वा बलाध्यक्षो निशाचरः । स्यन्दनं च बलं चैव समीपं प्रत्यपादयत् ।।6.78.7।।
Meaning
प्रदक्षिणं रथं कृत्वा आरुरोह निशाचरः । सूतं सञ्चोदयामास शीघ्रं मे रथमावह ।।6.78.8।।
Meaning
अथ तान्राक्षसान्सर्वान्मकराक्षोऽब्रवीदिदम् । यूयं सर्वे प्रयुध्यध्वं पुरस्तान्मम राक्षसाः ।।6.78.9।।
Meaning
अहं राक्षसराजेन रावणेन महात्मना । आज्ञप्तः समरे हन्तुं तावुभौ रामलक्ष्मणौ ।।6.78.10।।
Meaning