Sarga 76: Kampana and Others Slain
कम्पनादिवधः
kampanādivadhaḥ — word-by-word gloss for all 94 shlokas.
Jump to a shloka · 94 in this sarga
प्रवृत्ते सङ्कुले तस्मिन्घोरे वीरजनक्षये । अङ्गदः कम्पनं वीरमाससाद रणोत्सुकः ।।6.76.1।।
Meaning
आहूय सोऽङ्गदं कोपात्ताडयामास वेगितः । गदया कम्पनः पूर्वं स चचाल भृशाहतः ।।6.76.2।।
Meaning
स सञ्ज्ञां प्राप्य तेजस्वी चिक्षेप शिखरं गिरेः । अर्दितश्च प्रहारेण कम्पनः पतितो भुवि ।।6.76.3।।
Meaning
ततस्तु कम्पनं दृष्ट्वा शोणिताक्षो हतं रणे । रथेनाभ्यपतत् क्षिप्रं तत्राङ्गदमभीतवत् ।।6.76.4।।
Meaning
सोऽङ्गदं निशितैर्बाणैस्तदा विव्याध वेगितः । शरीरदारणैस्तीक्ष्णैः कालाग्निसमविग्रहैः ।।6.76.5।।
Meaning
क्षुरक्षुरप्रैर्नाराचैर्वत्सदन्तैः शिलीमुखैः । कर्णिशल्यविपाठैश्च बहुभिर्निशितैः शरैः ।।6.76.6।।
Meaning
अङ्गदः प्रतिविद्धाङ्गो वालिपुत्रः प्रतापवान् । धनुरग्र्यं रथं बाणान्ममर्द तरसा बली ।।6.76.7।।
Meaning
शोणिताक्षस्ततः क्षिप्रमसिचर्म समाददे । उत्पपात दिवं क्रुद्धो वेगवानविचारयन् ।।6.76.8।।
Meaning
तं क्षिप्रतरमाप्लुत्य परामृश्याङ्गदो बली । करेण तस्य तं खड्गं समाच्छिद्य ननाद च ।।6.76.9।।
Meaning
तस्यांसफलके खड्गं निजघान ततोऽङ्गदः । यज्ञोपवीतवच्चैनं चिच्छेद कपिकुञ्जरः ।।6.76.10।।
Meaning