Sarga 76: Kampana and Others Slain
कम्पनादिवधः
kampanādivadhaḥ — word-by-word gloss for all 94 shlokas.
Jump to a shloka · 94 in this sarga
तं प्रगृह्य महाखड्गं विनद्य च पुनः पुनः । वालिपुत्रोऽभिदुद्राव रणशीर्षे परानरीन् ।।6.76.11।।
Meaning
आयसीं तु गदां वीरः प्रगृह्य कनकाङ्गदः । शोणिताक्षः समाविध्य तमेवानुपपात ह ।।6.76.12।।
Meaning
प्रजङ्घसहितो वीरो यूपाक्षस्तु ततो बली । रथेनाभिययौ क्रुद्धो वालिपुत्रं महाबलम् ।।6.76.13।।
Meaning
तयोर्मध्ये कपिश्रेष्ठः शोणिताक्षप्रजङ्घयोः । विशाखयोर्मध्यगतः पूर्णचन्द्र इवाभवत् ।।6.76.14।।
Meaning
अङ्गदं परिरक्षन्तौ मैन्दो द्विविद एव च । तस्य तस्थतुरभ्याशे परस्परदिदृक्षया ।।6.76.15।।
Meaning
अभिपेतुर्महाकायाः प्रतियत्ता महाबलाः । राक्षसा वानरान्रोषादसिचर्मगदाधराः ।।6.76.16।।
Meaning
त्रयाणां वानरेन्द्राणां त्रिभी राक्षसपुङ्गवैः । संसक्तानां महद्युद्धमभवद्रोमहर्षणम् ।।6.76.17।।
Meaning
ते तु वृक्षान्समादाय सम्प्रचिक्षिपुराहवे । खड्गेन प्रतिचिच्छेद तान्प्रजङ्घो महाबलः ।।6.76.18।।
Meaning
रथानश्वान्द्रुमैः शैलैस्ते प्रचिक्षिपुराहवे । शरौघैः प्रतिचिच्छेद तान्यूपाक्षो निशाचरः ।।6.76.19।।
Meaning
सृष्टान्द्विविदमैन्दाभ्यां द्रुमानुत्पाट्य वीर्यवान् । बभञ्ज गदया मध्ये शोणिताक्षः प्रतापवान् ।।6.76.20।।
Meaning