Sarga 124: The Puṣpaka Brought

पुष्पकोपस्थापनम्

puṣpakopasthāpanam — word-by-word gloss for all 30 shlokas.

Jump to a shloka · 30 in this sarga

Page 1 of 330 shlokas in this sarga (verified max-across-sources)
Shloka 124.1Word-by-word available

तां रात्रिमुषितं रामं सुखोत्थितमरिन्दमम् । अब्रवीत्प्राञ्जलिर्वाक्यं जयं पृष्ट्वा विभीषणः ।।6.124.1।।

Meaning

Shloka 124.2Word-by-word available

स्नानानि चाङ्गरागाणि वस्त्राण्याभरणानि च । चन्दनानि च दिव्यानि माल्यानि विविधानि च ।।6.124.2।।

Meaning

Shloka 124.3Word-by-word available

अलङ्कारविदश्चेमा नार्यः पद्मनिभेक्षणाः । उपस्थितास्त्वां विधिवत्स्नापयिष्यन्ति राघव ।।6.124.3।।

Meaning

Shloka 124.4Word-by-word available

प्रतिगृह्णीष्व तत्सर्वं मदनुग्रहकाम्यया । एवमुक्तस्तु काकुत्स्थः प्रत्युवाच विभीषणम् ।।6.124.4।।

Meaning

Shloka 124.5Word-by-word available

हरीन्सुग्रीवमुख्यांस्त्वं स्नानेनाभिनिमन्त्रय । स तु ताम्यति धर्मात्मा मम हेतोः सुखोचितः ।।6.124.5।।

Meaning

Shloka 124.6Word-by-word available

सुकुमारो महाबाहुः कुमारः सत्यसंश्रवः । तं विना केकयीपुत्रं भरतं धर्मचारिणम् ।।6.124.6।।

Meaning

Shloka 124.7Word-by-word available

न मे स्नानं बहुमतं वस्त्राण्याभरणानि च । इत एव पथा क्षिप्रं प्रतिगच्छामि तां पुरीम् ।।6.124.7।।

Meaning

Shloka 124.8Word-by-word available

अयोध्यामागतो ह्येष पन्थाः परमदुर्गमः । एवमुक्तस्तु काकुत्स्थं प्रत्युवाच विभीषणः ।।6.124.8।।

Meaning

Shloka 124.9Word-by-word available

अह्ना त्वां प्रापयिष्यामि तां पुरीं पार्थिवात्मज । पुष्पकं नाम भद्रं ते विमानं सूर्यसन्निभम् ।।6.124.9।।

Meaning

Shloka 124.10Word-by-word available

मम भ्रातुः कुबेरस्य रावणेनाहृतं बलात् । हृतं निर्जित्य सङ्ग्रामे कामगं दिव्यमुत्तमम् ।।6.124.10।।

Meaning