Sarga 88: Lakṣmaṇa Battles Indrajit
सौमित्रिरावणियुद्धम्
saumitrirāvaṇiyuddham — word-by-word gloss for all 39 shlokas.
Jump to a shloka · 39 in this sarga
विभीषणवचः श्रुत्वा रावणिः क्रोधमूर्छितः । अब्रवीत्परुषं वाक्यं वेगेनाभ्युत्पपात ह ।।6.88.1।।
Meaning
उद्यतायुधनिस्त्रिंशो रथे सुसमलङ्कृते । कालाश्वयुक्ते महति स्थितः कालान्तकोपमः ।।6.88.2।।
Meaning
महाप्रमाणमुद्यम्य विपुलं वेगवद्दृढम् । धनुर्भीमं परामृश्य शरांश्चामित्रशातनान् ।।6.88.3।।
Meaning
तं ददर्श महेष्वासो रथे सुसमलङ्कृतः । अलङ्कृतममित्रघ्नं राघवस्यानुजं बली ।।6.88.4।।
Meaning
हनुमत्पृष्ठमासीनमुदयस्थरविप्रभम् । उवाचैनं समारब्धः सौमित्रिं सविभीषणम् ।।6.88.5।।
Meaning
तांश्च वानरशार्दूलान्पश्यध्वं मे पराक्रमम् । अद्य मत्कार्मुकोत्सृष्टं शरवर्षं दुरासदम् ।।6.88.6।।
Meaning
मुक्तं वर्षमिवाकाशे वारयिष्यथ संयुगे । अद्य वो मामका बाणा महाकार्मुकनिःसृताः ।।6.88.7।।
Meaning
विधमिष्यन्ति गात्राणि तूलराशिमिवानलः । तीक्ष्णसायकनिर्भिन्नान् शूलशक्त्यृष्टितोमरैः ।।6.88.8।।
Meaning
अद्य वो गमयिष्यामि सर्वानेव यमक्षयम् । क्षिपतः शरवर्षाणि क्षिप्रहस्तस्य मे युधि ।।6.88.9।।
Meaning
जीमूतस्येव नदतः कः स्थास्यति ममाग्रतः । रात्रियुद्धे मया पूर्वं वज्राशनिसमैः शरैः ।।6.88.10।।
Meaning