Sarga 44: The Night Battle
निशायुद्धम्
niśāyuddham — word-by-word gloss for all 43 shlokas.
Jump to a shloka · 43 in this sarga
युद्ध्यतामेव तेषां तु तदा वानररक्षसाम् । रविरस्तं गतो रात्रिः प्रवृत्ता प्राणहारिणी ।।6.44.1।।
Meaning
अन्योन्यं बद्धवैराणां घोराणां जयमिच्छताम् । सम्प्रवृत्तं निशायुद्धं तदा वानररक्षसाम् ।।6.44.2।।
Meaning
राक्षसोऽसीति हरयो हरिश्चासीति राक्षसाः । अन्योन्यं समरे जघ्नुस्तस्मिंस्तमसि दारुणे ।।6.44.3।।
Meaning
जहि दारय चैहीति कथं विद्रवसीति च । एवं सुतुमुलः शब्दस्तस्मिंस्तमसि शुश्रुवे ।।6.44.4।।
Meaning
कालाः काञ्चनसन्नाहास्तस्मिंस्तमसि राक्षसाः । सम्प्रादृश्यन्त शैलेन्द्रा दीप्तौषधिवना इव ।।6.44.5।।
Meaning
तस्मिंस्तमसि दुष्पारे राक्षसाः क्रोधमूर्छिताः । परिपेतुर्महावेगा भक्षयन्तः प्लवङ्गमान् ।।6.44.6।।
Meaning
ते हयान्काञ्चनापीडान्ध्वजांश्चाग्निशिखोपमान् । आप्लुत्य दशनैस्तीक्ष्णैर्भीमकोपा व्यदारयन् ।।6.44.7।।
Meaning
वानरा बलिनो युद्धेऽक्षोभयन्राक्षसीं चमूम् । कुञ्जरान्कुञ्जरारोहान्पताकाध्वजिनो रथान् ।।6.44.8।।
Meaning
चकर्षुश्च ददंशुश्च दशनैः क्रोधमूर्छिताः । लक्ष्मणश्चापि रामश्च शरैराशीविषोपमैः ।।6.44.9।।
Meaning
दृश्यादृश्यानि रक्षांसि प्रवराणि निजघ्नतुः । तुरङ्गखुरविध्वस्तं रथनेमिसमुत्थितम् ।।6.44.10।।
Meaning