Sarga 8: Prahasta and the Others Speak

प्रहस्तादिवचनम्

prahastādivacanam — word-by-word gloss for all 24 shlokas.

Jump to a shloka · 24 in this sarga

Page 1 of 324 shlokas in this sarga (verified max-across-sources)
Shloka 8.1Word-by-word available

ततो नीलाम्बुदनिभः प्रहस्तो नाम राक्षसः । अब्रवीत्प्राञ्जलिर्वाक्यं शूरः सेनापतिस्तदा ।।6.8.1।।

Meaning

Shloka 8.2Word-by-word available

देवदानवगन्धर्वाः पिशाचपतगोरगाः । न त्वां धर्षयितुं शक्ताः किं पुनर्वानरा रणे ।।6.8.2।।

Meaning

Shloka 8.3Word-by-word available

सर्वे प्रमत्ता विश्वस्ता वञ्चिताः स्म हनूमता । न हि मे जीवतो गच्छेज्जीवन् स वनगोचरः ।।6.8.3।।

Meaning

Shloka 8.4Word-by-word available

सर्वां सागरपर्यन्तां सशैलवनकाननाम् । करोम्यवानरां भूमिमाज्ञापयतु मां भवान् ।।6.8.4।।

Meaning

Shloka 8.5Word-by-word available

रक्षां चैव विधास्यामि वानराद्रजनीचर । नागमिष्यति ते दुःखं किञ्चिदात्मापराधजम् ।।6.8.5।।

Meaning

Shloka 8.6Word-by-word available

अब्रवीत्तु सुसङ्क्रुद्धो दुर्मुखो नाम राक्षसः । इदं न क्षमणीयं हि सर्वेषां नः प्रधर्षणम् ।।6.8.6।।

Meaning

Shloka 8.7Word-by-word available

अयं परिभवो भूयः पुरस्यान्तःपुरस्य च । श्रीमतो राक्षसेन्द्रस्य वानरेण प्रधर्षणम् ।।6.8.7।।

Meaning

Shloka 8.8Word-by-word available

अस्मिन्मुहूर्ते हत्वैको निवर्तिष्यामि वानरान् । प्रविष्टान् सागरं भीममम्बरं वा रसातलम् ।।6.8.8।।

Meaning

Shloka 8.9Word-by-word available

ततोऽब्रवीत्सुसङ्क्रुद्धो वज्रदंष्ट्रो महाबलः । प्रगृह्य परिघं घोरं मांसशोणितरूषितम् ।।6.8.9।।

Meaning

Shloka 8.10Word-by-word available

किं वो हनुमता कार्यं कृपणेन तपस्विना । रामे तिष्ठति दुर्धर्षे ससुग्रीवे सलक्ष्मणे ।।6.8.10।।

Meaning