Sarga 8: Prahasta and the Others Speak
प्रहस्तादिवचनम्
prahastādivacanam — word-by-word gloss for all 24 shlokas.
Jump to a shloka · 24 in this sarga
अद्य रामं ससुग्रीवं परिघेण सलक्ष्मणम् । आगमिष्यामि हत्वैको विक्षोभ्य हरिवाहिनीम् ।।6.8.11।।
Meaning
इदं ममापरं वाक्यं शृणु राजन् यदीच्छसि । उपायकुशलो ह्येवं जयेच्छत्रूनतन्द्रितः ।।6.8.12।।
Meaning
कामरूपधराः शूराः सुभीमा भीमदर्शनाः । राक्षसा वै सहस्राणि राक्षसाधिप निश्चिताः ।।6.8.13।।
Meaning
काकुत्स्थमुपसङ्गम्य बिभ्रतो मानुषं वपुः । सर्वे ह्यसम्भ्रमा भूत्वा ब्रुवन्तु रघुसत्तमम् ।।6.8.14।।
Meaning
प्रेषिता भरतेन स्म भ्रात्रा तव यवीयसा । तवागमनमुद्दिश्य कृत्यमात्ययिकं त्विति ।।6.8.15।।
Meaning
स हि सेनां समुत्थाप्य क्षिप्रमेवोपयास्यति । ततो वयमितस्तूर्णं शूलशक्तिगदाधराः ।।6.8.16।।
Meaning
चापबाणासिहस्ताश्च त्वरितास्तत्र याम हे । आकाशे गणशः स्थित्वा हत्वा तां हरिवाहिनीम् ।।6.8.17।।
Meaning
अश्मशस्त्रमहावृष्ट्या प्रापयाम यमक्षयम् । एवं चेदुपसर्पेतामनयं रामलक्ष्मणौ ।।6.8.18।।
Meaning
अवश्यमपनीतेन जहतामेव जीवितम् । कौम्भकर्णिस्ततो वीरो निकुम्भो नाम वीर्यवान् ।।6.8.19।।
Meaning
अब्रवीत्परमक्रुद्धो रावणं लोकरावणम् । सर्वे भवन्तस्तिष्ठन्तु महाराजेन सङ्गताः ।।6.8.20।।
Meaning