Sarga 131: Rāma's Coronation
श्रीरामपट्टाभिषेकः
śrīrāmapaṭṭābhiṣekaḥ — word-by-word gloss for all 124 shlokas.
Jump to a shloka · 124 in this sarga
शिरस्यञ्जलिमाधाय कैकेय्यानन्दवर्धनः । बभाषे भरतो ज्येष्ठं रामं सत्यपराक्रमम् ।।6.131.1।।
Meaning
पूजिता मामिका माता दत्तं राज्यमिदं मम । तद्ददामि पुनस्तुभ्यं यथा त्वमददा मम ।।6.131.2।।
Meaning
धुरमेकाकिना न्यस्तामृषभेण बलीयसा । किशोरवद्गुरुं भारं न वोढुमहमुत्सहे ।।6.131.3।।
Meaning
वारिवेगेन महता भिन्नः सेतुरिव क्षरन् । दुर्बन्धनमिदं मन्ये राज्यच्छिद्रमसंवृतम् ।।6.131.4।।
Meaning
गतिं खर इवाश्वस्य हंसस्येव च वायसः । नान्वेतुमुत्सहे राम तव मार्गमरिन्दम ।।6.131.5।।
Meaning
यथा चारोपितो वृक्षो जातश्चान्तर्निवेशने । महांश्च सुदुरारोहो महास्कन्धप्रशाखवान् ।।6.131.6।।
Meaning
शीर्येत पुष्पितो भूत्वा न फलानि प्रदर्शयन् । तस्य नानुभवेदर्थं यस्य हेतोः स रोप्यते ।।6.131.7।।
Meaning
एषोपमा महाबाहो त्वदर्थं वेत्तुमर्हसि । यद्यस्मान्मनुजेन्द्र त्वं भक्तान्भृत्यान्न शाधि हि ।।6.131.8।।
Meaning
जगदद्याभिषिक्तं त्वामनुपश्यतु सर्वतः । प्रतपन्तमिवादित्यं मध्याह्ने दीप्ततेजसम् ।।6.131.9।।
Meaning
तूर्यसङ्घातनिर्घोषैः काञ्चीनूपुरनिस्वनैः । मधुरैर्गीतशब्दैश्च प्रतिबुध्यस्व राघव ।।6.131.10।।
Meaning