Sarga 119: Sītā Enters the Fire

हुताशनप्रवेशः

hutāśanapraveśaḥ — word-by-word gloss for all 36 shlokas.

Page 1 of 436 shlokas in this sarga (verified max-across-sources)
Shloka 119.1Word-by-word available

एवमुक्ता तु वैदेही परुषं रोमहर्षणम् । राघवेण सरोषेण भृशं प्रव्यथिताऽभवत् ।।6.119.1।।

Meaning

Shloka 119.2Word-by-word available

सा तदश्रुतपूर्वं हि जने महति मैथिली । श्रुत्वा भर्तृवचो रूक्षं लज्जया व्रीडिताऽभवत् ।।6.119.2।।

Meaning

Shloka 119.3Word-by-word available

प्रविशन्तीव गात्राणि स्वान्येव जनकात्मजा । वाक्छल्यैस्तैः सशल्येव भृशमश्रूण्यवर्तयत् ।।6.119.3।।

Meaning

Shloka 119.4Word-by-word available

ततो बाष्पपरिक्लिष्टं प्रमार्जन्ती स्वमाननम् । शनैर्गद्गदया वाचा भर्तारमिदमब्रवीत् ।।6.119.4।।

Meaning

Shloka 119.5Word-by-word available

किं मामसदृशं वाक्यमीदृशं श्रोत्रदारुणम् । रूक्षं श्रावयसे वीर प्राकृतः प्राकृतामिव ।।6.119.5।।

Meaning

Shloka 119.6Word-by-word available

न तथाऽस्मि महाबाहो यथा त्वमवगच्छसि । प्रत्ययं गच्छ मे येन चारित्रेणैव ते शपे ।।6.119.6।।

Meaning

Shloka 119.7Word-by-word available

पृथक् स्त्रीणां प्रचारेण जातिं तां परिशङ्कसे । परित्यजेमां शङ्कां तु यदि तेऽहं परीक्षिता ।।6.119.7।।

Meaning

Shloka 119.8Word-by-word available

यद्यहं गात्रसंस्पर्शं गताऽस्मि विवशा प्रभो । कामकारो न मे तत्र दैवं तत्रापराध्यति ।।6.119.8।।

Meaning

Shloka 119.9Word-by-word available

मदधीनं तु यत्तन्मे हृदयं त्वयि वर्तते । पराधीनेषु गात्रेषु किं करिष्याम्यनीश्वरा ।।6.119.9।।

Meaning

Shloka 119.10Word-by-word available

सह संवृद्धभावाच्च संसर्गेण च मानद । यद्यहं ते न विज्ञाता हता तेनास्मि शाश्वतम् ।।6.119.10।।

Meaning