Sarga 113: Lament of Rāvaṇa's Queens
रावणान्तःपुरपरिदेवनम्
rāvaṇāntaḥpuraparidevanam — word-by-word gloss for all 26 shlokas.
Jump to a shloka · 26 in this sarga
रावणं निहतं श्रुत्वा राघवेण महात्मना । अन्तःपुराद्विनिष्पेतू राक्षस्यः शोककर्शिताः ।।6.113.1।।
Meaning
वार्यमाणाः सुबहुशो वेष्टन्त्यः क्षितिपांसुषु । विमुक्तकेश्यो दुःखार्ता गावो वत्सहता इव ।।6.113.2।।
Meaning
उत्तरेण विनिष्क्रम्य द्वारेण सह राक्षसैः । प्रविश्यायोधनं घोरं विचिन्वन्त्यो हतं पतिम् ।।6.113.3।।
Meaning
राजपुत्रेतिवादिन्यो हा नाथेति च सर्वशः । परिपेतुः कबन्धाङ्कां महीं शोणितकर्दमाम् ।।6.113.4।।
Meaning
ता बाष्पपरिपूर्णाक्ष्यो भर्तृशोकपराजिताः । करेण्व इव नर्दन्त्यो विनेदुर्हतयूथपाः ।।6.113.5।।
Meaning
ददृशुस्तं महावीर्यं महाकायं महाद्युतिम् । रावणं निहतं भूमौ नीलाञ्जनचयोपमम् ।।6.113.6।।
Meaning
ताः पतिं सहसा दृष्ट्वा शयानं रणपांसुषु । निपेतुस्तस्य गात्रेषु च्छिन्ना वनलता इव ।।6.113.7।।
Meaning
बहुमानात्परिष्वज्य काचिदेनं रुरोद ह । चरणौ काचिदालिङ्ग्य काचित्कण्ठेऽवलम्ब्य च ।।6.113.8।।
Meaning
उद्धृत्य च भुजौ काचिद्भूमौ स्म परिवर्तते । हतस्य वदनं दृष्ट्वा काचिन्मोहमुपागमत् ।।6.113.9।।
Meaning
काचिदङ्के शिरः कृत्वा रुरोद मुखमीक्षती । स्नापयन्ती मुखं बाष्पैस्तुषारैरिव पङ्कजम् ।।6.113.10।।
Meaning