← Yuddha Kāṇḍa

Sarga 113: Lament of Rāvaṇa's Queens

रावणान्तःपुरपरिदेवनम्

rāvaṇāntaḥpuraparidevanam — word-by-word gloss for all 26 shlokas.

Jump to a shloka · 26 in this sarga

Page 2 of 326 shlokas in this sarga (verified max-across-sources)
Shloka 113.11Word-by-word available

एवमार्ताः पतिं दृष्ट्वा रावणं निहतं भुवि । चुक्रुशुर्बहुधा शोकाद्भूयस्ताः पर्यदेवयन् ।।6.113.11।।

Meaning

Shloka 113.12Word-by-word available

येन वित्रासितः शक्रो येन वित्रासितो यमः । येन वैश्रवणो राजा पुष्पकेण वियोजितः ।।6.113.12।।

Meaning

Shloka 113.13Word-by-word available

गन्धर्वाणामृषीणां च सुराणां च महात्मनाम् । भयं येन महद्दत्तं सोऽयं शेते रणे हतः ।।6.113.13।।

Meaning

Shloka 113.14Word-by-word available

असुरेभ्यः सुरेभ्यो वा पन्नगेभ्योऽपि वा तथा । न भयं यो विजानाति तस्येदं मानुषाद्भयम् ।।6.113.14।।

Meaning

Shloka 113.15Word-by-word available

अवध्यो देवतानां यस्तथा दानवरक्षसाम् । हतः सोऽयं रणे शेते मानुषेण पदातिना ।।6.113.15।।

Meaning

Shloka 113.16Word-by-word available

यो न शक्यः सुरैर्हन्तुं न यक्षैर्नासुरैस्तथा । सोऽयं कश्चिदिवासत्त्वो मृत्युं मर्त्येन लम्भितः ।।6.113.16।।

Meaning

Shloka 113.17Word-by-word available

एवं वदन्त्यो बहुधा रुरुदुस्तस्य ताः स्त्रियः । भूय एव च दुःखार्ता विलेपुश्च पुनःपुनः ।।6.113.17।।

Meaning

Shloka 113.18Word-by-word available

अशृण्वता च सुहृदां सततं हितवादिनाम् । मरणायाहृता सीता घातिताश्च निशाचराः ।।6.113.18।।

Meaning

Shloka 113.19Word-by-word available

एताः सममिदानीं ते वयमात्मा च पातिताः । ब्रुवाणोऽपि हितं वाक्यमिष्टो भ्राता विभीषणः ।।6.113.19।।

Meaning

Shloka 113.20Word-by-word available

धृष्टं परुषितो मोहात्त्वयाऽऽत्मवधकाङ्क्षिणा । यदि निर्यातिता ते स्यात्सीता रामाय मैथिली ।।6.113.20।।

Meaning