Sarga 69: Narāntaka Slain
नरान्तकवधः
narāntakavadhaḥ — word-by-word gloss for all 98 shlokas.
Jump to a shloka · 98 in this sarga
एवं विलपमानस्य रावणस्य दुरात्मनः । श्रुत्वा शोकाभितप्तस्य त्रिशिरा वाक्यमब्रवीत् ।।6.69.1।।
Meaning
एवमेव महावीर्यो हतो नस्तातमध्यमः । न तु सत्पुरुषा राजन्विलपन्ति यथा भवान् ।।6.69.2।।
Meaning
नूनं त्रिभुवनस्यापि पर्याप्तस्त्वमसि प्रभो । स कस्मात्प्राकृत इव शोचस्यात्मानमीदृशम् ।।6.69.3।।
Meaning
ब्रह्मदत्तास्ति ते शक्तिः कवचः सायको धनुः । सहस्रखरसंयुक्तो रथो मेघस्वनो महान् ।।6.69.4।।
Meaning
त्वयासकृद्विशस्त्रेण विशस्ता देवदानवाः । स सर्वायुधसम्पन्नो राघवं शास्तुमर्हसि ।।6.69.5।।
Meaning
कामं तिष्ठ महाराज निर्गमिष्याम्यहं रणम् । उद्धरिष्यामि ते शत्रून् गरुडः पन्नगानिव ।।6.69.6।।
Meaning
शम्बरो देवराजेन नरको विष्णुना यथा । तथाद्य शयिता रामो मया युधि निपातितः ।।6.69.7।।
Meaning
श्रुत्वा त्रिशिरसो वाक्यं रावणो राक्षसाधिपः । पुनर्जातमिवात्मानं मन्यते कालचोदितः ।।6.69.8।।
Meaning
श्रुत्वा त्रिशिरसो वाक्यं देवान्तकनरान्तकौ । अतिकायश्च तेजस्वी बभूवुर्युद्धहर्षिताः ।।6.69.9।।
Meaning
ततोऽहमहमित्येव गर्जन्तो नैरृतर्षभाः । रावणस्य सुता वीराः शक्रतुल्यपराक्रमाः ।।6.69.10।।
Meaning