Sarga 7: The Ministers Speak
सचिवोक्तिः
sacivoktiḥ — word-by-word gloss for all 26 shlokas.
Jump to a shloka · 26 in this sarga
इत्युक्ता राक्षसेन्द्रेण राक्षसास्ते महाबलाः । ऊचुः प्राञ्जलयः सर्वे रावणं राक्षसेश्वरम् ।।6.7.1।।
Meaning
द्विषत्पक्षमविज्ञाय नीतिबाह्यास्त्वबुद्धयः । अविज्ञायात्मपक्षं च राजानं भीषयन्ति हि ।।6.7.2।।
Meaning
राजन् परिघशक्त्यृष्टिशूलपट्टिशसङ्कुलम् । सुमहन्नो बलं कस्माद्विषादं भजते भवान् ।।6.7.3।।
Meaning
त्वया भोगवतीं गत्वा निर्जिताः पन्नगा युधि । कैलासशिखरावासी यक्षैर्बहुभिरावृतः ।।6.7.4।।
Meaning
सुमहत्कदनं कृत्वा वश्यस्ते धनदः कृतः । स महेश्वरसख्येन श्लाघमानस्त्वया विभो ।।6.7.5।।
Meaning
निर्जितः समरे रोषाल्लोकपालो महाबलः । विनिहत्य च यक्षौघान् विक्षोभ्य च विगृह्य च ।।6.7.6।।
Meaning
त्वया कैलासशिखराद्विमानमिदमाहृतम् । मयेन दानवेन्द्रेण त्वद्भयात्सख्यमिच्छता ।।6.7.7।।
Meaning
दुहिता तव भार्यार्थे दत्ता राक्षसपुङ्गव । दानवेन्द्रो मधुर्नाम वीर्योत्सिक्तो दुरासदः ।।6.7.8।।
Meaning
विगृह्य वशमानीतः कुम्भीनस्याः सुखावहः । निर्जितास्ते महाबाहो नागा गत्वा रसातलम् ।।6.7.9।।
Meaning
वासुकिस्तक्षकः शङ्खो जटी च वशमाहृताः । अक्षया बलवन्तश्च शूरा लब्धवराः पुरा ।।6.7.10।।
Meaning