Sarga 63: Kumbhakarṇa's Reproach

कुम्भकर्णानुशोकः

kumbhakarṇānuśokaḥ — word-by-word gloss for all 57 shlokas.

Page 1 of 657 shlokas in this sarga (verified max-across-sources)
Shloka 63.1Word-by-word available

तस्य राक्षसराजस्य निशम्य परिदेवितम् । कुम्भकर्णो बभाषेऽथ वचनं प्रजहास च ।।6.63.1।।

Meaning

Shloka 63.2Word-by-word available

दृष्टो दोषो हि योऽस्माभिः पुरा मन्त्रविनिर्णये । हितेष्वनभिरक्तेन सोऽयमासादितस्त्वया ।।6.63.2।।

Meaning

Shloka 63.3Word-by-word available

शीघ्रं खल्वभ्युपेतं त्वां फलं पापस्य कर्मणः । निरयेष्वेव पतनं यथा दुष्कृतकर्मणः ।।6.63.3।।

Meaning

Shloka 63.4Word-by-word available

प्रथमं वै महाराज कृत्यमेतदचिन्तितम् । केवलं वीर्यदर्पेण नानुबन्धो विचारितः ।।6.63.4।।

Meaning

Shloka 63.5Word-by-word available

यः पश्चात्पूर्वकार्याणि कुर्यादैश्वर्यमास्थितः । पूर्वं चोत्तरकार्याणि न स वेद नयानयौ ।।6.63.5।।

Meaning

Shloka 63.6Word-by-word available

देशकालविहीनानि कर्माणि विपरीतवत् । क्रियमाणानि दुष्यन्ति हवींष्यप्रयतेष्विव ।।6.63.6।।

Meaning

Shloka 63.7Word-by-word available

त्रयाणां पञ्चधा योगं कर्मणां यः प्रपश्यति । सचिवैः समयं कृत्वा स सभ्ये वर्तते पथि ।।6.63.7।।

Meaning

Shloka 63.8Word-by-word available

यथागमं च यो राजा समयं विचिकीर्षति । बुध्यते सचिवान्बुद्ध्य सुहृदश्चानुपश्यति ।।6.63.8।।

Meaning

Shloka 63.9Word-by-word available

धर्ममर्थं च कामं च सर्वान्वा रक्षसां पते । भजेत पुरुषः काले त्रीणि द्वन्द्वानि वा पुनः ।।6.63.9।।

Meaning

Shloka 63.10Word-by-word available

त्रिषु चैतेषु यच्छ्रेष्ठं श्रुत्वा तन्नावबुध्यते । राजा वा राजमात्रो वा व्यर्थं तस्य बहुश्रुतम् ।।6.63.10।।

Meaning