Sarga 29: Śārdūla and Other Spies Sent
शार्दूलादिचारप्रेषणम्
śārdūlādicārapreṣaṇam — word-by-word gloss for all 30 shlokas.
Jump to a shloka · 30 in this sarga
शुकेन तु समाख्यातांस्तान्दृष्ट्वा हरियूथपान् । समीपस्थं च रामस्य भ्रातरं स्वं विभीषणम् ।।6.29.1।।
Meaning
लक्ष्मणं च महावीर्यं भुजं रामस्य दक्षिणम् । सर्ववानरराजं च सुग्रीवं भीमविक्रमम् ।।6.29.2।।
Meaning
गजं गवाक्षं गवयं मैन्दं द्विविदमेव च । अङ्गदं चैव बलिनं वज्रहस्तात्मजात्मजम् ।।6.29.3।।
Meaning
हनुमन्तं च विक्रान्तं जाम्बवन्तं च दुर्जयम् । सुषेणं कुमुदं नीलं नलं च प्लवगर्षभम् ।।6.29.4।।
Meaning
किञ्चिदाविग्नहृदयो जातक्रोधश्च रावणः । भर्त्सयामास तौ वीरौ कथान्ते शुकसारणौ ।।6.29.5।।
Meaning
अधोमुखौ तौ प्रणतावब्रवीच्छुकसारणौ । रोषगद्गदया वाचा संरब्धः परुषं वचः ।।6.29.6।।
Meaning
न तावत्सदृशं नाम सचिवैरुपजीविभिः । विप्रियं नृपतेर्वक्तुं निग्रहप्रग्रहे प्रभोः ।।6.29.7।।
Meaning
रिपूणां प्रतिकूलानां युद्धार्थमभिवर्तताम् । उभाभ्यां सदृशं नाम वक्तुमप्रस्तवे स्तवम् ।।6.29.8।।
Meaning
आचार्या गुरवो वृद्धा वृथा वां पर्युपासिताः । सारं यद्राजशास्त्राणामनुजीव्यं न गृह्यते ।।6.29.9।।
Meaning
गृहीतो वा न विज्ञातो भारो ज्ञानस्य वोह्यते । ईदृशैः सचिवैर्युक्तो मूर्खैर्दिष्ट्या धराम्यहम् ।।6.29.10।।
Meaning