Sarga 67: Kumbhakarṇa Slain

कुम्भकर्णवधः

kumbhakarṇavadhaḥ — word-by-word gloss for all 179 shlokas.

Page 1 of 18179 shlokas in this sarga (verified max-across-sources)
Shloka 67.1Word-by-word available

ते निवृत्ता महाकायाः श्रुत्वाङ्गदवचस्तदा । नैष्ठिकीं बुद्धिमासाद्य सर्वे सङ्ग्रामकाङ्क्षिणः ।।6.67.1।।

Meaning

Shloka 67.2Word-by-word available

समुदीरितवीर्याश्च समारोपितविक्रमाः । पर्यवस्थापिता वाक्यैरङ्गदेन वलीमुखाः ।।6.67.2।।

Meaning

Shloka 67.3Word-by-word available

प्रयाताश्च गता हर्षं मरणे कृतनिश्चयाः । चक्रुः सुतुमुलं युद्धं वानरास्त्यक्तजीविताः ।।6.67.3।।

Meaning

Shloka 67.4Word-by-word available

अथ वृक्षान्महाकायाः सानूनि सुमहान्ति च । वानरास्तूर्णमुद्यम्य कुम्भकर्णमभिद्रुताः ।।6.67.4।।

Meaning

Shloka 67.5Word-by-word available

स कुम्भकर्णः सङ्क्रुद्धो गदामुद्यम्य वीर्यवान् । अर्दयन्सुमहाकायः समन्ताद्व्यक्षिपद्रिपून् ।।6.67.5।।

Meaning

Shloka 67.6Word-by-word available

शतानि सप्त चाष्टौ च सहस्राणि च वानराः । प्रकीर्णाः शेरते भूमौ कुम्भकर्णेन पोथिताः ।।6.67.6।।

Meaning

Shloka 67.7Word-by-word available

षोडशाष्टौ च दश च विंशत्त्रिंशत्तथैव च । परिक्षिप्य च बाहुभ्यां खादन्विपरिधावति ।।6.67.7।।

Meaning

Shloka 67.8Word-by-word available

भक्षयन्भृशसङ्क्रुद्धो गरुडः पन्नगानिव । कृच्छ्रेण च समाश्वस्ताः सङ्गम्य च ततस्ततः ।।6.67.8।।

Meaning

Shloka 67.9Word-by-word available

वृक्षाद्रिहस्ता हरयस्तस्थुः सङ्ग्राममूर्धनि । ततः पर्वतमुत्पाट्य द्विविदः प्लवगर्षभः ।।6.67.9।।

Meaning

Shloka 67.10Word-by-word available

दुद्राव गिरिशृङ्गाभं विलम्ब इव तोयदः । तं समुत्पत्य चिक्षेप कुम्भकर्णस्य वानरः ।।6.67.10।।

Meaning