Sarga 28: The Valour of Mainda and Others Told
मैन्दादिपराक्रमाख्यानम्
maindādiparākramākhyānam — word-by-word gloss for all 45 shlokas.
Jump to a shloka · 45 in this sarga
सारणस्य वचः श्रुत्वा रावणं राक्षसाधिपम् । बलमादिष्य तत्सर्वं शुको वाक्यमथाब्रवीत् ।।6.28.1।।
Meaning
स्थितान्पश्यसि यानेतान्मत्तानिव महाद्विपान् । न्यग्रोधानिव गाङ्गेयान्सालान्हैमवतानिव ।।6.28.2।।
Meaning
एते दुष्प्रसहा राजन्बलिनः कामरूपिणः । दैत्यदानवसङ्काशा युद्धे देवपराक्रमाः ।।6.28.3।।
Meaning
एषां कोटिसहस्राणि नव पञ्च च सप्त च । तथा शङ्खसहस्राणि तथा वृन्दशतानि च ।।6.28.4।।
Meaning
एते सुग्रीवसचिवाः किष्किन्धानिलयाः सदा । हरयो देवगन्धर्वैरुत्पन्नाः कामरूपिणः ।।6.28.5।।
Meaning
यौ तौ पश्यसि तिष्ठन्तौ कुमारौ देवरूपिणौ । मैन्दश्च द्विविदश्चोभौ ताभ्यां नास्ति समो युधि ।।6.28.6।।
Meaning
ब्रह्मणा समनुज्ञातावमृतप्राशिनावुभौ । आशंसेते युधा लङ्कामेतौ मर्दितुमोजसा ।।6.28.7।।
Meaning
यावेतावेतयोः पार्श्वे स्थितौ पर्वतसन्निभौ । सुमुखोऽसुमुखश्चैव मृत्युपुत्रौ पितुःसमौ ।।6.28.8।।
Meaning
प्रेक्षन्तौ नगरीं लङ्कां कोटिभिर्दशभिर्वृतौ । यं तु पश्यसि तिष्ठन्तं प्रभिन्नमिव कुञ्जरम् ।।6.28.9।।
Meaning
यो बलात् क्षोभयेत्क्रुद्धः समुद्रमपि वानरः । एषोऽभिगन्ता लङ्काया वैदेह्यास्तव च प्रभो ।।6.28.10।।
Meaning