Sarga 20: A Plan to Divide Sugrīva
सुग्रीवभेदनोपायः
sugrīvabhedanopāyaḥ — word-by-word gloss for all 36 shlokas.
Jump to a shloka · 36 in this sarga
ततो निविष्टां ध्वजिनीं सुग्रीवेणाभिपालिताम् । ददर्श राक्षसोऽभ्येत्य शार्दूलो नाम वीर्यवान् ।।6.20.1।।
Meaning
चारो राक्षसराजस्य रावणस्य दुरात्मनः । तां दृष्ट्वा सर्वतो व्यग्रं प्रतिगम्य स राक्षसः ।।6.20.2।।
Meaning
प्रविश्य लङ्कां वेगेन रावणं वाक्यमब्रवीत् । एष वानरर्क्षौघो लङ्कां समभिवर्तते ।।6.20.3।।
Meaning
अगाधश्चाप्रमेयश्च द्वितीय इव सागरः । पुत्रौ दशरथस्येमौ भ्रातरौ रामलक्ष्मणौ ।।6.20.4।।
Meaning
उत्तमायुधसम्पन्नौ सीतायाः पदमागतौ । एतौ सागरमासाद्य सन्निविष्टौ महाद्युती ।।6.20.5।।
Meaning
बलमाकाशमावृत्य सर्वतो दशयोजनम् । तत्त्वभूतं महाराज क्षिप्रं वेदितुमर्हसि ।।6.20.6।।
Meaning
तव दूता महाराज क्षिप्रमर्हन्त्यवेक्षितुम् । उपप्रदानं सान्त्वं वा भेदो वात्र प्रयुज्यताम् ।।6.20.7।।
Meaning
शार्दूलस्य वचः श्रुत्वा रावणो राक्षसेश्वरः । उवाच सहसा व्यग्रः सम्प्रधार्यार्थमात्मनः ।।6.20.8।।
Meaning
शुकं नाम तदा रक्षो वाक्यमर्थविदां वरम् । सुग्रीवं ब्रूहि गत्वा त्वं राजानं वचनान्मम । यथा सन्देशमक्लीबं श्लक्ष्णया परया गिरा ।।6.20.9।।
Meaning
त्वं वै महाराज कुलप्रसूतो महाबलश्चर्क्षरजःसुतश्च । न कश्चिदर्थस्तव नास्त्यनर्थस्तथा हि मे भ्रातृसमो हरीश ।।6.20.10।।
Meaning