Sarga 31: Vidyujjihva's Illusion

विद्युज्जिह्वमायाप्रयोगः

vidyujjihvamāyāprayogaḥ — word-by-word gloss for all 45 shlokas.

Page 1 of 545 shlokas in this sarga (verified max-across-sources)
Shloka 31.1Word-by-word available

ततस्तमक्षोभ्यबलं लङ्काधिपतये चराः । सुवेले राघवं शैले निविष्टं प्रत्यवेदयन् ।।6.31.1।।

Meaning

Shloka 31.2Word-by-word available

चाराणां रावणः श्रुत्वा प्राप्तं रामं महाबलम् । जातोद्वेगोऽभवत्किञ्चित्सचिवानिदमब्रवीत् ।।6.31.2।।

Meaning

Shloka 31.3Word-by-word available

मन्त्रिणः शीघ्रमायान्तु सर्वे वै सुसमाहिताः । अयं नो मन्त्रकालो हि सम्प्राप्त इति राक्षसाः ।।6.31.3।।

Meaning

Shloka 31.4Word-by-word available

तस्य तच्छासनं श्रुत्वा मन्त्रिणोऽभ्यागमन् द्रुतम् । ततः स मन्त्रयामास सचिवै राक्षसैः सह ।।6.31.4।।

Meaning

Shloka 31.5Word-by-word available

मन्त्रयित्वा स दुर्धर्षः क्षमं यत्समनन्तरम् । विसर्जयित्वा सचिवान्प्रविवेश स्वमालयम् ।।6.31.5।।

Meaning

Shloka 31.6Word-by-word available

ततो राक्षसमाहूय विद्युज्जिह्वं महाबलम् । मायाविदं महामायः प्राविशद्यत्र मैथिली ।।6.31.6।।

Meaning

Shloka 31.7Word-by-word available

विद्युज्जिह्वं च मायाज्ञमब्रवीद्राक्षसाधिपः । मोहयिष्यावहे सीतां मायया जनकात्मजाम् ।।6.31.7।।

Meaning

Shloka 31.8Word-by-word available

शिरो मायामयं गृह्य राघवस्य निशाचर । त्वं मां समुपतिष्ठस्व महच्च सशरं धनुः ।।6.31.8।।

Meaning

Shloka 31.9Word-by-word available

एवमुक्तस्तथेत्याह विद्युज्जिह्वो निशाचरः । दर्शयामास तां मायां सुप्रयुक्तां स रावणे । तस्य तुष्टोऽभवद्राजा प्रददौ च विभूषणम् ।।6.31.9।।

Meaning

Shloka 31.10Word-by-word available

अशोकवनिकायां तु सीतादर्शनलालसः । नैरृतानामधिपतिः संविवेश महाबलः ।।6.31.10।।

Meaning