Sarga 46: Sugrīva and the Others Grieve
सुग्रीवाद्यनुशोकः
sugrīvādyanuśokaḥ — word-by-word gloss for all 50 shlokas.
Jump to a shloka · 50 in this sarga
ततो द्यां पृथिवीं चैव वीक्षमाणा वनौकसः । ददृशुः सन्ततौ बाणैर्भ्रातरौ रामलक्ष्मणौ ।।6.46.1।।
Meaning
वृष्ट्वेवोपरते देवे कृतकर्मणि राक्षसे । आजगामाथ तं देशं ससुग्रीवो विभीषणः ।।6.46.2।।
Meaning
नीलद्विविदमैन्दाश्च सुषेणकुमुदाङ्गदाः । तूर्णं हनुमता सार्धमन्वशोचन्त राघवौ ।।6.46.3।।
Meaning
अचेष्टौ मन्दनिश्वासौ शोणितौघपरिप्लुतौ । शरजालाचितौ स्तब्धौ शयानौ शरतल्पयोः ।।6.46.4।।
Meaning
निःश्वसन्तौ यथा सर्पौ निश्चेष्टौ मन्दविक्रमौ । रुधिरस्रावदिग्धाङ्गौ तापनीयाविव ध्वजौ ।।6.46.5।।
Meaning
तौ वीरशयने वीरौ शयानौ मन्दचेष्टितौ । यूथपैस्तैः परिवृतौ बाष्पव्याकुललोचनैः ।।6.46.6।।
Meaning
राघवौ पतितौ दृष्ट्वा शरजालसमावृतौ । बभूवुर्व्यथिताः सर्वे वानराः सविभीषणाः ।।6.46.7।।
Meaning
अन्तरिक्षं निरीक्षन्तो दिशः सर्वाश्च वानराः । न चैनं माययाच्छन्नं ददृशू रावणिं रणे ।।6.46.8।।
Meaning
तं तु मायाप्रतिच्छन्नं माययैव विभीषणः । वीक्षमाणो ददर्शाथ भ्रातुः पुत्रमवस्थितम् ।।6.46.9।।
Meaning
तमप्रतिमकर्माणमप्रतिद्वन्द्वमाहवे । ददर्शान्तर्हितं वीरं वरदानाद्विभीषणः ।।6.46.10।।
Meaning