← Yuddha Kāṇḍa

Sarga 46: Sugrīva and the Others Grieve

सुग्रीवाद्यनुशोकः

sugrīvādyanuśokaḥ — word-by-word gloss for all 50 shlokas.

Page 2 of 550 shlokas in this sarga (verified max-across-sources)
Shloka 46.11Word-by-word available

तेजसा यशसा चैव विक्रमेण च संयुतम् । इन्द्रजित्त्वात्मनः कर्म तौ शयानौ समीक्ष्य च ।।6.46.11।।

Meaning

Shloka 46.12Word-by-word available

उवाच परमप्रीतो हर्षयन्सर्वनैरृतान् । दूषणस्य च हन्तारौ खरस्य च महाबलौ ।।6.46.12।।

Meaning

Shloka 46.13Word-by-word available

सादितौ मामकैर्बाणैर्भ्रातरौ रामलक्ष्मणौ । नेमौ मोक्षयितुं शक्यावेतस्मादिषुबन्धनात् ।।6.46.13।।

Meaning

Shloka 46.14Word-by-word available

सर्वैरपि समागम्य सर्षिसङ्घैः सुरासुरैः । यत्कृते चिन्तयानस्य शोकार्तस्य पितुर्मम ।।6.46.14।।

Meaning

Shloka 46.15Word-by-word available

अस्पृष्ट्वा शयनं गात्रैस्त्रियामा याति शर्वरी । कृत्स्नेयं यत्कृते लङ्का नदी वर्षास्विवाकुला ।।6.46.15।।

Meaning

Shloka 46.16Word-by-word available

सोऽयं मूलहरोऽनर्थः सर्वेषां निहतो मया । रामस्य लक्ष्मणस्यापि सर्वेषां च वनौकसाम् ।।6.46.16।।

Meaning

Shloka 46.17Word-by-word available

विक्रमा निष्फलाः सर्वे यथा शरदि तोयदाः । एवमुक्त्वा तु तान्सर्वान्राक्षसान्परिपार्श्वतः ।।6.46.17।।

Meaning

Shloka 46.18Word-by-word available

यूथपानपि तान्सर्वांस्ताडयामास रावणिः । नीलं नवभिराहत्य मैन्दं च द्विविदं तथा ।।6.46.18।।

Meaning

Shloka 46.19Word-by-word available

त्रिभिस्त्रिभिरमित्रघ्नस्तताप प्रवरेषुभिः । जाम्बवन्तं महेष्वासो विद्ध्वा बाणेन वक्षसि ।।6.46.19।।

Meaning

Shloka 46.20Word-by-word available

हनूमतो वेगवतो विससर्ज शरान्दश । गवाक्षं शरभं चैव द्वावप्यमिततेजसौ ।।6.46.20।।

Meaning