Sarga 41: Aṅgada as Envoy
अङ्गददूत्यम्
aṅgadadūtyam — word-by-word gloss for all 100 shlokas.
Jump to a shloka · 100 in this sarga
अथ तस्मिन्निमित्तानि दृष्ट्वा लक्ष्मणपूर्वजः । सुग्रीवं सम्परिष्वज्य तदा वचनमब्रवीत् ।।6.41.1।।
Meaning
असंमन्त्र्य मया सार्धं तदिदं साहसं कृतम् । एवं साहसकर्माणि न कुर्वन्ति जनेश्वराः ।।6.41.2।।
Meaning
संशये स्थाप्य मां चेदं बलं च सविभीषणम् । कष्टं कृतमिदं वीर साहसं साहसप्रिय ।।6.41.3।।
Meaning
इदानीं मा कृथा वीर एवंविधमचिन्तितम् । त्वयि किञ्चित्समापन्ने किं कार्यं सीतया मम ।।6.41.4।।
Meaning
भरतेन महाबाहो लक्ष्मणेन यवीयसा । शत्रुघ्नेन च शत्रुघ्न स्वशरीरेण वा पुनः ।।6.41.5।।
Meaning
त्वयि चानागते पूर्वमिति मे निश्चिता मतिः । जानतश्चापि ते वीर्यं महेन्द्रवरुणोपम ।।6.41.6।।
Meaning
हत्वाहं रावणं युद्धे सपुत्रबलवाहनम् । अभिषिच्य च लङ्कायां विभीषणमथापि च ।।6.41.7।।
Meaning
भरते राज्यमावेश्य त्यक्ष्ये देहं महाबल । तमेवंवादिनं रामं सुग्रीवः प्रत्यभाषत ।।6.41.8।।
Meaning
तव भार्यापहर्तारं दृष्ट्वा राघव रावणम् । मर्षयामि कथं वीर जानन्पौरुषमात्मनः ।।6.41.9।।
Meaning
इत्येवंवादिनं वीरमभिनन्द्य स राघवः । लक्ष्मणं लक्ष्मिसम्पन्नमिदं वचनमब्रवीत् ।।6.41.10।।
Meaning