Sarga 19: Rāma Lies on a Bed of Darbha
शरतल्पसंवेशः
śaratalpasaṃveśaḥ — word-by-word gloss for all 42 shlokas.
Jump to a shloka · 42 in this sarga
राघवेणाभये दत्ते सन्नतो रावणानुजः । विभीषणो महाप्राज्ञो भूमिं समवलोकयन् ।।6.19.1।।
Meaning
खात्पपातावनीं हृष्टो भक्तैरनुचरैः सह । स तु रामस्य धर्मात्मा निपपात विभीषणः ।।6.19.2।।
Meaning
पादयोः शरणान्वेषी चतुर्भिः सह राक्षसैः । अब्रवीच्च तदा रामं वाक्यं तत्र विभीषणः ।।6.19.3।।
Meaning
धर्मयुक्तं च युक्तं च साम्प्रतं सम्प्रहर्षणम् । अनुजो रावणस्याहं तेन चास्म्यवमानितः ।।6.19.4।।
Meaning
भवन्तं सर्वभूतानां शरण्यं शरणं गतः । परित्यक्ता मया लङ्का मित्राणि च धनानि वै ।।6.19.5।।
Meaning
भवद्गतं मे राज्यं च जीवितं च सुखानि च । तस्य तद्वचनं श्रुत्वा रामो वचनमब्रवीत् ।।6.19.6।।
Meaning
वचसा सान्त्वयित्वैनं लोचनाभ्यां पिबन्निव । आख्याहि मम तत्त्वेन राक्षसानां बलाबलम् ।।6.19.7।।
Meaning
एवमुक्तं तदा रक्षो रामेणाक्लिष्टकर्मणा । रावणस्य बलं सर्वमाख्यातुमुपचक्रमे ।।6.19.8।।
Meaning
अवध्यः सर्वभूतानां देवदानवरक्षसाम् । राजपुत्र दशग्रीवो वरदानात्स्वयम्भुवः ।।6.19.9।।
Meaning
रावणानन्तरो भ्राता मम ज्येष्ठश्च वीर्यवान् । कुम्भकर्णो महातेजाः शक्रप्रतिबलो युधि ।।6.19.10।।
Meaning